________________
३०४
दशमपरिवर्तः।
तद्यथापि नामेत्यादि (p. 218, 1)। जातगर्भत्वापुर्विणौ।
आसन्नप्रसवकालत्वागुरुगर्भा। अङ्गविजम्भणादेष्टते। पौर्वकेणायोनिशोमनसिकारेण ग्राम्यधर्मप्रतिसंयुक्तेन प्रयोगमौलपृष्ठावस्थासु यथाक्रममासेवितेन निषेवितेन भावितेन सर्वत्र पुनः पुनरामुखीकरणाबहुलौकृतेनेमां वर्तमानामेवरूपामसह्या कायेन वेदनां दुःखमनुभवामौति । चिन्तयतौति शेषः। शृण्वतश्चैनां रमते चित्तमस्यामिति। आधेयस्य प्रतिपत्तिधर्मस्य क्षिप्रं धर्मकायफलाभिनिर्वतनादिप्रतिपत्तिमतो यथोक्तप्रयोगसामर्थ्याचित्तं प्रज्ञापारमितायां श्रवणपूर्वकं रमते भक्तिं करोतीति यावत्। परमार्थप्रयोगमाह। आश्चर्य भगवन् यावदित्यादिना। यावदचनेन सनाथा इत्यादिपरिग्रहः । यस्माद्याकरणादिभिर्भूमिषु पारमितासु च निवेशनात्सुपरिग्रहौताः सुपरौत्ताश्च कल्याणमित्रप्रत्यर्पणाच सुपरीन्दिता भगवता बोधिसत्त्वास्तस्मादाश्चर्यम्। सर्वविषयत्वेऽपि कृपाया विशिष्टाशयसम्पत्तिभव्यताबलेन प्रतिनियतजनानुग्रहो विस्मयः। विशिष्टाशयसम्पत्तिमेवाह । तथा होत्यादिना (p. 219, 1)। अनागतसम्बन्धेनार्थकारित्वाबहुजनहिताय प्रतिपन्नाः। वर्तमानकालतयेदानीमर्थकरणाइहुजनसुखाय। अतीतकालसम्बन्धेन कृतानां कुशलाकुशलधर्मवासनानां यथाक्रम विड्वये परिहाणये वा यत्नकरणाल्लोकानुकम्पायै प्रतिपन्ना इति पूर्वेण सम्बन्धः। पुनरप्यतीतानागतवर्तमानकालसम्बन्धात्सामान्येनाह। महतो जनकायस्यार्थाय हिताय सुखायेति ।