________________
अभिसमयालयारालोकः ।
३०५
धर्म देशयितुकामा इति। प्रज्ञापारमितायां धर्मचक्रप्रवर्तनादिप्रतिपत्तिमतां परार्थकरणाद्धर्म भाषितुकामाः। अद्ध्यपरिहाणिप्रयोगार्थमाह। इह भगवन् बोधिसत्त्वस्येत्यादि। रूपादौनां वृद्धिपरिहाण्यदर्शनेन प्रज्ञापारमितायाञ्चरणानुज्ञानात्तत्प्रयोगोऽभिहितः। धर्माधर्माद्यनुपलम्भप्रयोगार्थमाह। धर्म न समनुपश्यतौत्यादि। धर्माधर्मादेरनुपलम्भप्रतिपत्त्या तत्प्रयोगत्वादेव भावनापरिपूरि गच्छति। अचिन्त्याकारसज्ञानिरोधप्रयोगार्थमाह। अचिन्त्यमिदं भगवन् देश्यत इत्यादि। धर्मधातुरूपत्वेन चिन्तयितुमशक्यत्वादचिन्त्य रूपादौति यदि न सञ्जानौते तद्हणसञ्जानिरोधात्तदा यथोक्तप्रयोगेन चरति प्रज्ञापारमितायामित्यर्थः। अविकल्पप्रयोगार्थ प्रश्नयन्नाह । कोऽत्र भगवन्नधिमोक्षयिष्यतीत्यादि (p. 220, 1) । परिहर्तुमाह। यः शारिपुत्र चरितावीत्यादि। कथं भगवंश्चरितावी बोधिसत्त्वो महासत्त्वो भवतीति। स्वरूपलाभप्रश्नं कथं चरितावौति नामधेयं लभत इत्यन्वर्थसञ्जालाभप्रश्नं च परिहरनाह। इह शारिपुत्रेत्यादि। ननु चिन्ताविषयबलवैशारद्यादिसम्भावे कथं न कल्पयतीति । तत्कस्य हेतोरित्याशङ्कयाह । बलानि हि शरिपुत्रेत्यादि। तत्त्वतो धर्मधातुरूपत्वाद्रपादितन्निमित्ततत्स्वभावविकल्पनादिप्रतिपत्तिसामर्थ्य नाविकल्पप्रयोगलाभाचिन्तातिक्रान्तत्वेनाचिन्त्यानि बलादीनि न कल्पयतीत्यर्थः। फलरत्नदानप्रयोगार्थ
39