________________
अभिसमयालधारालोकः ।
३०३
धानार्थमाह। प्रतिभात्वित्यादि। निरन्तरप्रयोगार्थमाह । तद्यथापि नाम भगवनिह कश्चिदेवेत्यादि। स्तम्बं वा स्तम्बनिमित्तं वेति, विटपं विटपनिमित्तं वेत्यर्थः । स्तम्बाद्यनुपलम्भात् कथं महासमुद्रस्याभ्यासन्नत्वमिति । तत्कस्य हेतोरित्याशयाह। अनुपूर्वनिनो होत्यादि। एतदक्तम्। यस्मात् स्वहेतुना जनितस्तम्बादिना विरुद्धोऽनुपूर्वनिम्नः स्वभावो महासमुद्रस्यातस्तदुपलम्भस्वभावादेव स्तम्बाद्यनुपलम्भात्तस्यासन्नत्वमिति । प्रज्ञापारमितां शृण्वता वेदितव्यमिति (p. 217, 4)। सततभावनादिप्रतिपत्त्या निरन्तरप्रयोगबलान्निश्चेतव्यम् । कथं मातुः श्रवणकारणेन व्याकरणकार्यासन्नोभावोऽनुमोयते इति। तत्कस्य हेतोरित्याशङ्याह । तथा ह्येनामित्यादिना । एतदक्तम् । "कारणस्यार्थान्तरनिरपेक्षतया कार्योत्पादनयोग्यतानुमानेन स्वभावहेतुना व्याकरणासन्नौभावानुमानाददोष" इति। आसन्नाभिसम्बोधप्रयोगमाह। तद्यथापि नाम भगवन् वसन्त इत्यादिना। शौर्णपर्णपलाशेष्विति। पतितहड्तपत्रेषु। पूर्ववत् तत्कस्य हेतोरित्याशयाह । तथा हौमानि पूर्वनिमित्तानौत्यादि।
हेतुना यः समग्रेण कार्योत्पादोऽनुमौयते । अर्थान्तरानपेक्षत्वात् स स्वभावोऽनुवर्णितः॥ इति न्यायेन गतार्थमेतत् । उपनामितेयमिति । अभिनवानास्त्रवधर्माधारत्वादिप्रतिपत्तेरासन्नाभिसम्बोधप्रयोगसामर्थ्येन दौकिता। क्षिप्राभिसम्बोधप्रयोगार्थमाह ।