________________
दशमपरिवर्तः ।
पारमितोद्वहणादिना कथं परिपक्ककुशलमूला बोधिसत्त्वो लक्ष्यते, अन्यस्यापि तदग्रहादिसम्भवादिति । तत्कस्य हेतोरित्याशङ्क्याह । भूयस्त्वेन होत्यादि । यस्माद्वाहुल्येन धर्मव्यसनसंवर्तनौयैः कर्मभिरविरहितानां प्रज्ञापारमितावित्तानि सम्यगुग्रहादिविमुखत्वेन प्रतिकूलानि भवि - ष्यन्तौति । परित्यागपरत्वेन च परिवेल्लयिष्यन्ति । यस्माचानुपचितकुशलमूलाः प्रज्ञापारमितायामर्थानवबोधगमनान्न प्रस्कन्दन्ति, नापि प्रसादलाभात् प्रसौदन्ति, तस्मादुपचित कुशलमूलास्ते यथावदुग्रहणादिकारिण इति वाक्यार्थः । भूतको व्यामिति । भूतकोटिर्धमधातुस्तद्योतनात् प्रज्ञापारमिता तथोक्ता । निर्याणप्रयोगमाह । तद्यथापि नाम भगवन् पुरुषो योजनशतिकादित्यादिना । एवमेवेत्यादिना । बहुयोजनशतिकाटवौकान्तारात्प्रस्थितपुरुषवदान्तरायिकधर्मवर्जनादिप्रतिपत्तिमतो यस्येयं जिनजननौ श्रवणाद्यर्थमुपपद्यते नियमेन निर्याणात्तेन वेदितव्यमभ्यासान्नोऽहमनुत्तरायाः सम्यक्सम्बोधेरित्यर्थः । तदेवाह । नापि तेनेत्यादिना । तद्विरोधिधर्मानुपस्थाने कथं श्रावकादिभूमौ पतनभयं न स्यादिति । तत्कस्य हेतोरित्या - शङ्क्याह । तथा ह्यस्येमानीत्यादि (p. 216, 8 ) । एतदुक्तम् ।
यस्मात् पुद्गलनैरात्म्यमाचप्रभवत्वेन श्रावकादिभूमिविरुडामविकल सर्वधर्मनैः स्वाभाव्यद्योतिकां प्रज्ञापारमितां दर्शनाद्यर्थं लभते ततो विरुद्धाया मातुरुपलम्भान्न श्रावकादिभूमिपाताशङ्के” ति । साधूक्तत्वादेवमेतच्छारिपुचैवमेतदिति । स्वहस्तं दत्त्वा पुनरपि सामर्थ्या
३०२
66