________________
व्यभिसमयालङ्कारालोकः ।
सम्प्रस्थित इति । अथवा दूरतो गम्भौरार्थाधिमोक्षाच्छावकाद्यगोचरतः । प्रज्ञापारमितां लभ्यत इत्यादि । प्रथमतरमेव तावद्दूरात्पश्यति । ततो दर्शनाह्लादितशरौरो वन्दते । ततो विवर्धमानप्रसादवेगः प्रदक्षिणीकरणादिना पर्युपास्ते। ततः कृतानुपूर्वौको निषद्य शृणोति । इत्येवं दर्शनाद्यर्थं प्रज्ञापारमितां प्राप्यति । न चेदानीमसौ चिरेणेति । न चिरेणेदानीमेव दर्शनादिकाले । एतदेवाह । आसन्नमित्यादिना । नैकं तथागतमित्यादि । एकद्दिचितथागतानतिक्रमिष्यति । ततः स बोधिसत्त्वः पश्चाद्व्याकरणं प्रतिलभ्यत इत्येवं न, अपि तु तेभ्य इत्यर्थः । तदेव कथयन्नाह । अपि तु तानारागयिष्यतौति । अपि च तानेकद्दिचितथागतान् सम्यक् तत्प्रज्ञप्तशिक्षाप्रतिपत्त्याऽऽरागयिष्यति । तथागतदर्शनं च व्याकरणेनावन्ध्यं करिष्यतीति । एकद्दिचितथागतादिदर्शनं व्याकरणेनाशून्यं करिष्यति । नियमे व्याकरणलाभात् । तदेवाह । तथागतदर्शनाचेत्यादिना । यदा च व्याकरणमित्याद्युपसंहारः सुगमः । अविनिवर्तनौयप्रयोगार्थमाह । अथ खल्वायुष्मान् शारिपुत्र इत्यादि । कः पुनर्वादोऽच यः श्रुत्वा चोssौष्यति । यः सम्यगुग्रहणादिनाऽविनिवर्तनौयप्रयोगेण युक्तः स परिपक्ककुशलमूल इत्यत्र को वादः । नैव कश्चित्संदेह इत्यर्थः । साधूक्तत्वेनानुमतिमाह । एवमेतदित्यादि (p. 214, 5) यथोक्तप्रयोगमेव द्रढयन्नाह । प्रतिभाति मे भगवन्नित्यादि । औपम्योदाहरणमिति । सादृश्योदाहरणम्। उपवर्त्स्यत इति । उपपत्स्यते । प्रज्ञा
३०१