________________
दशमपरिवर्तः ।
३००
रुक्तः । साधूक्तत्वेन गम्भौरप्रयोगं स्पष्टयन्नाह । एवमेतदित्यादिना । तदयं समासार्थो यदा गम्भीरं रूपादिकमित्यभिनिवेशयोगेन तत्त्वतो न तिष्ठति तदाऽविपर्यस्तत्वातत्र गम्भीरयोगमापद्यते । यदा च गम्भीरमित्यपि न योगमापद्यते तदा गम्भीरं रूपादिकमित्यपि न तिष्ठत्येवं योगावस्थानस्य निषेधेनाविपरीतगाम्भीर्यप्रयोगार्थः कथित इति । एतदनुसारेण दुरवगाहाप्रमाणप्रयोगयोरप्यर्थो वाच्यः। “एते च गम्भौरादयस्त्रयः प्रयोगाः प्रत्येकं मृदुमध्याधिमाचा" इत्यार्यविमुक्तिसेनः । कृच्छचिराभिसम्बोधप्रयोगार्थमाह । गम्भौरा भगवन् प्रज्ञापारमिताऽविनिवर्तनौयस्येत्यादि । नियतगोत्रत्वेन कश्चिदवैवर्तिको ऽप्यव्याकृत इति । तद्यवच्छेदार्थं व्याकृतग्रहणम् । मातरि सर्वप्रकारज्ञानाभावेन विचिकित्सादिसम्भावात् तस्यैव पुरतो भाषणे को हेतुरिति । तत्कस्य हेतोरित्याशङ्क्याह । स होत्यादि । स यस्मात् प्रतिविद्धधर्मधातुनिष्यन्ददेशना - धर्माग्रत्वेन मिथ्याज्ञानाभावान्न कांक्षिष्यति, संशयज्ञानविगमान्न विचिकित्सिष्यति, अज्ञानविरहान धन्वा - यिष्यति, सम्यग्ज्ञानोपेतत्वान्न विवदिष्यति, तस्मातस्यैव पुरतो भाषणौयेति मतिः । सामर्थ्यादन्यस्य पुनरुत्वासादिसम्भवात् कृच्छ्रचिराभिसम्बोधप्रयोगो दर्शितः । व्याकरणलाभप्रयोगमाह । स चेत्पुनरित्यादिना (p. 213, 1 ) को दोष इति । कतमः कांक्षादिदोषः स्यात् । गोत्रसामर्थ्यादनुत्त्रासादिमतो न कश्चिदित्याह । दूरत इत्यादि । दूराद्दूरतो दौर्घकालादि यावत् । तदेवाह । चिरयान