________________
अभिसमयालवारालोकः ।
२६६
नाह। कथं भगवन्नित्यादि (p. 211, 5)। प्रकरणानुरूपत्वात् प्रश्नस्य साधु साध्विति साधुकारदानम्। एतमर्थमित्यादि। वक्ष्यमाणान् विंशतिप्रयोगानारभ्य स्वाधिगमार्थं परिप्रष्टव्यम् । पराधिगमार्थ परिप्रश्नीकर्तव्यम्। तथागतं मन्यसे प्रतिपद्यसे जानौष इति यावत् । तत्र रूपादिधनवस्थानप्रयोगमाह। इहेत्यादिना । आधारस्वरूपभेदेन रूपे रूपमिति पदद्वयं वाच्यम् । ततः किमित्याह । यत इत्यादि। एतदुक्तम् । “यस्माद्र्पादिषु निःस्वभावतया स्थानप्रतिषेधस्तस्मात्तवानवस्थानप्रयोग" इति । अयोगप्रयोगार्थमाह। रूपमिति कौशिक न योजयतौति । न योगमापद्यत इत्यर्थः । ततः किं भवतीत्याह । यत इत्यादि। एवं योगमापद्यत इति । एवं तत्त्वतो योगाभावेन संहत्या योगमापद्यते । अयोग एव तेषु प्रयोग इत्यर्थः। गम्भौरप्रयोगमाह। गम्भौरेत्यादिना (p. 212, 4)। रूपादितथतागम्मौरतया प्रतिष्ठानानुपलब्ध्यर्थेन सर्वज्ञताधिकारे गम्भौरेत्यवबोधात् । दरवगाहप्रयोगमाह । दुरवगाहेत्यादिना। रूपादिदुरवगाहतया प्रकृत्यनाविलार्थेन मार्गज्ञताधिकारे दरवगाहेत्यधिमोक्षात्। तदेव कथयन्नाह। दुरुग्रहेति। श्रोत्रविज्ञानेन तदाकृष्टेन च मनोविज्ञानेन दरुग्रहत्वात् । अप्रमाणप्रयोगमाह । अप्रमाणेत्यादिना। रूपाद्यप्रमाणतया पर्यन्तानुपरलम्भार्थेन सर्वाकारज्ञताधिकारेऽप्रमाणेत्यालम्बनात्। अथवा गम्भौराभिसम्बोधमसाधारणाभिसम्बोधं निरुत्तराभिसम्बोधञ्चाधिकृत्य यथाक्रमं त्रिविधोऽयं गम्भौरप्रयोगादि
-
-
-