________________
२७
दशमपरिवर्तः।
त्यादि। यथोक्ततथागतपर्युपासनसंप्रश्नदानशीलादिचर्याहेतुत्रयवैपरौत्येन परीत्तकुशलमूलेनापरिपृच्छकजातीयेन पूर्वमचरितवतेति पदवयं योज्यम् । एतदुक्तम् । “व्यतिरेकमुखेन यस्माद्यथानिर्दिष्टबुद्धोपासनादिकारणेनाधिमुञ्चति प्रज्ञापारमितां विशिष्टाध्याशयतया तस्मादविनिवर्तनीयो धारयितव्य" इति । यथोक्तहेतुवैकल्याच्च प्रतिक्षिपन्तीत्याह। ये पुनरधिमुच्येत्यादि। कथमिदानों प्रतिक्षेपाशयेन पूर्व प्रतिक्षेपो गम्यत इति। तत्कस्य हेतोरित्याशयाह । यथापौत्याह (p. 210, 2) । यस्मादिदानों कुशस्लमूलानं परौत्तत्वात् प्रतिक्षेपाशयो मातुस्तस्मात् पूर्वमपि प्रतिक्षेपो गम्यते। अन्यथा परीत्तकुशलमूलत्वानुपपत्तेरित्यर्थः। तदेवाह। न हि भगवन्नित्यादि। उचितमेवोक्तम्। शारिपुत्रेणेत्याह। गम्भौरेत्यादि। किमत्राश्चर्य। नैव किञ्चित् कारणानुरूपत्वात् कार्यस्य । सञ्जातप्रसादातिशयत्वादाह। नमस्करोमोत्यादि। कथं मातुर्नमस्कारेऽन्यस्य सम्बन्धाभावान्नमस्कार इति । तत्कस्य हेतोरित्याशङ्याह। अतो निर्जाता होत्यादि। बोधिसत्त्वावस्थायां मातुरभ्यासेन बुद्धत्वप्राप्तेस्ततः सर्वज्ञता निर्जाता। बुद्धत्वावस्थायां विनेयेभ्यः प्रज्ञापारमिताप्रकाशनात् सर्वज्ञज्ञानप्रभाविता च प्रज्ञापारमितेत्येवं हेतुफलसम्बन्धात् प्रज्ञापारमितानमस्कारे सर्वज्ञज्ञानस्य नमस्कारः। एवमिति । सर्वज्ञज्ञानस्य हेतुत्वेन फलत्वेन चेत्यर्थः। श्रुतचिन्ताभावनामयज्ञानैर्यथाक्रमं प्रज्ञापारमितायां चरितव्यमित्यादि। पदवयं योज्यम् । प्रयोक्तर्निर्देशानन्तरं प्रयोगार्थं प्रश्नय