________________
व्यभिसमयालङ्कारालोकः ।
विशिष्टप्रयोगैराकारा भावयितव्यास्ते च प्रयोक्तारं विना कथयितुमशक्या इति श्रवणादिभाजनं प्रयोक्तारं निर्दिशन्नाह । अथ खलु शक्रस्येत्यादि (p. 208, 2)। तथागतमुद्दिश्य विहारादिकरणात् पूर्वजिनकृताधिकाराः । पिण्डपातादिदानाद्दहुबुद्धावरोपितकुशलमूलाः । कल्याणमिचैरधिष्ठितत्वेन कल्याणमित्रपरिग्टहोताः । यथोक्तविशेषणत्रयोपेता स्वाकारलक्षणाया मातुरस्या मुख्यतः श्रवणभाजनम् । तथा चोक्तम् ।
कृताधिकारा बुद्धेषु तेषूप्तशुभमूलकाः ।
मित्रैः सनाथाः कल्याणैरस्याः श्रवणभाजनम् ॥ ६ ॥ इति अवरमात्रकेणेति । अल्पेन । कायाद्युपस्थानाराधनादहुबुद्धपर्युपासिताः । संशयार्थनिर्णयाय स्वरूपपरिपृच्छनात् परिपृष्टाः। हेतुपरिपृच्छया परिप्रश्नीकृताः । दानादिदशपारमिताप्रतिपत्त्यनुष्ठानाद्दहुबुद्धावरोपितकुशलमूलाः । कृततथागतपर्युपासनादय एवोग्रहणादिभाजनमित्यवसातव्यम् । तथा चोक्तम् ।
बुद्धोपासनसम्प्रश्नदानशौलादिचर्यया । उग्रहधारणादीनां भाजनत्वं सतां मतम् ॥ ७ ॥ इति युक्त एवायं शक्रस्य वितर्को यस्य यथोक्तहेतुरस्ति स स्वाधिमोक्षं करोतीत्याह । यो भगवन्नित्यादि (p. 2098) | तथा त्वया शिक्षिष्यत इत्यादि पदचयं प्रयोगमौलपृष्ठावस्थासु दर्शनभावनाविशेषमार्गभेदादा ग्राह्यम् । ननु विशिष्टार्थाधिगमाभावे कथमुग्रहादिमात्रेणाविनिवर्तनौयो धारयितव्य इति । तत्कस्य हेतोरित्याशङ्क्याह । गम्भीरे
२०७