________________
नवमपरिवर्तः ः ।
सर्वधर्मास्वभावतामुपादाय तदधिगमस्या परप्रत्ययत्वात् । सर्वधर्मवशवर्तनस्वयम्भ्वाकार एकः । सर्वज्ञज्ञानपारमितेयमिति । सर्वधर्मस्वभावसर्वाकारपरिज्ञानतामुपादाय सर्वाकाराभिसम्बोधिबुद्धत्वाकार एकः । तदेवं कृत्वा यथा बलादिभिराकाराणां प्रभेदो यश्चैषां स्वभावस्तथता । यस्य च ते सर्वधर्मवशवर्तिनः स्वयम्भुवो यदर्थञ्च सर्वधर्म - सर्वाकाराभिसम्बोधायेति यथाक्रमं दश चत्वारश्चत्वारो - ऽष्टादश एक एक एकश्चेत्येकोनचत्वारिंशदाकाराः सर्वा - कारज्ञतामार्गाधिष्ठाना भवन्ति । यथोक्ता एव चाकाराः श्रावकादिभेदेन सर्वाकारज्ञतायां मार्गसत्यभेदादवगन्तव्याः । तथा चोक्तम् ।
२६
स्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमाः । शिष्याणां बोधिसत्त्वानां बुडानाञ्च यथाक्रमम् ॥ ४ ॥ सप्तचिंशच्चतुस्त्रिंशक्त्रिंशन्नव च ते मताः । त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधतः ॥ ५ ॥ इति तत्रानास्रवाः सास्रवाश्च सर्वज्ञताकारा यथाक्रमं श्रावकबोधिसत्त्वभेदेन । मार्गज्ञताकाराः सास्रवा एव बोधिसत्त्वानामत्यन्तक्लेशाप्रहाणात् । अनास्वा एव सर्वाकारज्ञताकाराः सवासनक्लेशज्ञेयावरणप्रहाणेन सर्वधर्मज्ञानित्वात् सम्यक्सम्बुद्धस्येत्येकच गण्यमानं चिसप्तत्युत्तरमाकारशतमित्याकाराः । यदुक्तं नामतः षोडशेभ्योऽन्याकारा इति तत्क्लेशावरणमाचप्रतिपक्षाकाराभिसन्धिनेति न तेनास्य विरोधः ॥
अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां स्तुतिपरिवर्ती नाम नवमः ॥