________________
अभिसमयालदारालोकः ।
२६५
बलं, कर्मविपाकज्ञानबलं, नानाधिमुक्तिज्ञानबलं, अनेकलोकधातुज्ञानबलं, इन्द्रियपरापरज्ञानबलं, सर्वत्रगामिनौप्रतिपज्ञानबलं, संक्लेशव्यवदानज्ञानबलं, पूर्वनिवासानुस्मृतिज्ञानबलं, च्युत्युपपत्तिज्ञानबलं, आश्रवक्षयज्ञानबलमिति निर्जितविपक्षत्वेनानवमुद्यतामुपादाय बलाकारा दश। वैशारद्यपारमितेयमिति। बुद्धोऽहमित्यात्मप्रतिज्ञाने रागादौनामन्तरायत्वाख्याने सर्वज्ञतादिमार्गस्य निर्याणत्वप्रकाशने क्षोणाश्रवत्वेनात्मनोऽभ्युपगमे च पर्यनुयोक्तरभावेनानवलीनचित्ततामुपादाय वैशारद्याकाराश्चत्वारः। प्रतिसंवित्पारमितेयमिति। पर्याये धर्मलक्षणे जनपदभाषायां धर्मप्रभेदे च यथाक्रममधिगमास्वादनज्ञेयावरणप्रतिघाताभावेन सर्वज्ञानासङ्गाप्रतिघातितामुपादाय धर्मार्थनिरुक्तिप्रतिभानप्रतिसंविदाकाराश्चत्वारः। सर्वबुद्धधर्मावेणिकपारमितेयमिति। नास्ति स्खलितं रचितं मुषितस्मृतिरसमाहितं चित्तं नानार्थसञ्जाऽप्रतिसंख्यायोपेक्षा चेत्येवमाकाराः षट् । ज्ञेयावरणविशुद्धिमारभ्य नास्ति छन्दतो वौर्यतः स्मृतितः समाधेः प्रज्ञाया विमुक्तेश्च सकाशात्परिहाणिरित्येवमाकाराः षट् । कायवाङ्मनस्कर्मणां ज्ञानपूर्वङ्गमानुपरिवर्तनाकारास्त्रयः। अतीतानागतप्रत्युत्पन्नेष्वसङ्गाप्रतिहतज्ञानाकारास्त्रय इति श्रावकाद्यसाधारणत्वेन गणनासमतिक्रमणतामुपादायाष्टादशावेणिकबुद्धधर्माकाराः। तथागततथतेति । सर्वस्य धर्मस्य बुबैभगवद्भिर्भाषितस्य लक्षणार्थवैकृत्यादवितथतामुपादाय सर्वबुद्धभाषिततथताकार एकः । स्वयम्भूपारमितेयमिति ।