________________
२६४
नवमपरिवर्तः ।
समुदयसत्याकारस्वभावं तृतीयमप्रणिहितं विमोक्षमुखं वैधातुकप्रणिधानप्रतिपक्ष इति। एवं त्रिविमोक्षमुखाकारास्त्रयः प्रतिपक्षमार्गः। अष्टविमोक्षपारमितेयमिति । अविभावितविभावितरूपसंज्ञत्वाद्यथाक्रममध्यात्म रूप्यरूपी प्रत्यात्मं ध्यानमारूप्यसमापत्तिं वा निःश्रित्य बहिर्धा रूपाणि सुवर्णदर्वर्णानि पश्यतीत्येतौ निर्माणावरणप्रतिपक्षण हौ विमोक्षौ। शुभाशुभरूपनिर्माणे च यथासंख्यमाभोगः प्रातिकूल्यञ्च संक्लेशस्तत्प्रतिपक्षण शुभं विमोक्षमुखं कायेन साक्षात्कृत्वोपसम्पद्य विहरति । प्रत्यात्म शुभाशभेषु रूपेष्ठन्योन्यापेक्षासंज्ञामन्योन्यानुगमसंज्ञां च निश्रित्यान्योन्यैकरससञ्जालाभेन यथेष्टं रूपाधिमोटाविभूत्वलाभादित्येको विमोक्ष इति विमोक्षाकारास्त्रयो निर्माणमार्गः। मोक्षानुकूलविहारमार्गस्वभावाश्चतुरारूप्यसमापत्त्याकाराः शान्तविहारमार्गस्वभावः सञ्जावेदितनिरोधाकार एक इति पञ्चाकारा दृष्टधर्मसुखविहारमार्गः। नवानुपूर्वविहारपारमितेयमिति। चतुर्थ्यानारूप्यनिरोधसमापत्त्याकारा नवलोकोत्तरमार्गः। चतुःसत्यपारमितेयमिति। चतुःसत्यसङ्ग्रहीताः क्लेशविसंयोगलक्षणानन्तर्यमार्गाकाराश्चत्वारः प्रहाणमार्गः। दशपारमितेयमिति । दानादिपारमिताकारा दशबुद्धत्वमार्गः। तदेवं प्रतिपक्षमार्गादिषड्विधमार्गमधिकृत्य मार्गज्ञता मार्गाधिष्ठानाश्चतुस्त्रिंशदाकारा भवन्ति । तदनन्तरं सर्वाकारज्ञताकारा वक्तव्याः। तच च मार्गों निरतिशयत्वादेक एव केवलं तु बलवैशारद्याद्याकारभेदेनास्य विशेषमार्गस्यासाधारणभेदो धक्तव्य इत्याह । बलपारमितेयमिति । स्थानास्थानज्ञान