________________
२६१
अभिसमयालङ्कारालोकः। छन्दादिमुखेन कर्मण्यतापादनात् । कृतचित्तपरिकर्मणोऽनन्तरमूष्ममूर्धप्रयोग इति तस्वभावाः श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियाकाराः पञ्च सम्यगभिसमयप्रायोगिकमार्गः, श्रद्धेन्द्रियादिनार्यमार्गसमुदागमायाधिपतिभूतोष्ममूर्खप्रयोगात्। अधिगतोमादेः क्षान्त्यग्रधर्मप्रयोग इति तत्स्वभावाः श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाबलाकाराः पञ्च सर्वथाभिसमयसंश्लेषमार्गः, श्रद्धाबलादिनाऽनन्तरं सत्यप्रतिवेधार्थमाश्रयादिविपक्षानभिभूतक्षान्त्याग्रधर्मप्रयोगात्। विदितोष्मादिचतुष्कस्य सत्यदर्शनमार्ग इति स्मृतिधर्मप्रविचयवौर्यप्रौतिप्रसन्धिसमाध्यपेक्षाकाराः सप्तबोध्यगान्यभिसमयमार्गः, तेनादितः प्रत्यात्मवेद्यतत्त्वाभिसम्बोधात्। परिज्ञातसत्यदर्शनस्य भावनामार्ग इति सम्यग्दृष्टिसंकल्पवाकर्मान्ताजौवव्यायामस्मृतिसमाध्यार्याष्टाङ्गमार्गाकारा विशुद्धनैर्याणिकमार्गः, दर्शनमार्गादूर्ध्वमनेन भावनाप्रहातव्यक्लेशविशुद्धये निर्याणात्। अत एवैषां बोधिपक्षधर्माणामेषानुपूर्त। तदेवं वस्तुपरीक्षामार्गादि सप्तविधं मार्गमधिकृत्य सर्वज्ञतामार्गाधिष्ठानाः सप्तत्रिंशदाकारा भवन्ति । तदनन्तरं मार्गज्ञतामार्गभेदानाह। शून्यानिमित्ताप्रणिहितपारमितेति। शून्यानात्माकारस्वभावं प्रथमं शून्यताविमोक्षमुखं, दृष्टिकृतप्रतिपक्षः । यच्चानिमित्तं निरोधो येन चानिमित्तं विकल्पापोढेन मार्गेणेति कृत्वा निरोधमार्गसत्याकारस्वभावं द्वितीयमानिमित्तविमोक्षमुखं दृष्टिनिमित्तविकल्पप्रतिपक्षः। यत्ततमानिमित्तः शमाकारैरिति तहस्तुनिमित्तानुविहं श्रावकमार्गमधिकृत्येति न तेनास्य विरोधः। अनित्यदुःख