________________
२६२
नवमपरिवर्तः।
निःसरणाकारात्मक इति निरोधाकारं शान्ताकारं प्रणौताकारं निःसरणाकारञ्चाधिकृत्य यश्चाध्यात्मिकादेवस्तुनो निरोधः। यथा च शान्तोऽष्टविधाभिनिवेशोपरमात् । यथा च प्रणीतः प्रकृत्या । यथा च निःसरणं विविधभ्रान्तिनिरोधेन। यच्च निःसरणमभावस्वभावतेति चयोऽष्टावेकस्त्रय एक इति यथाक्रमं षोडशाकारा निरोधसत्ये भवन्ति । समुदायेन षट्त्रिंशदिति मार्गज्ञताकाराः। तथा चोक्तम् ।
हेतौ मार्गे च दःखे च निरोधे च यथाक्रमम् । अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिताः॥३॥ इति तदनन्तरं सर्वाकारजताकारा वक्तव्याः तत्र च सर्वार्यपुङलाधिकारेण चिविधसर्वज्ञताकारसङ्घहो भवति अतः सर्वज्ञतामार्गभेदेनाह। स्मृत्युपस्थानादिबोधिपक्षधर्मेति (p. 207, 1)। तेषामेव बोधिपक्षधर्माणमनुपलब्धितामुपादाय स्मृत्युपस्थानादय एव पारमितेत्यर्थः। एतदुक्तम्। तत्र सर्वज्ञतायामादौ चतुःसत्यावताराय स्वसामान्यलक्षणपरीक्षितकायवेदनाचित्तधर्मस्मृत्युपस्थानाकाराश्चत्वारो वस्तुपरीक्षामार्गः, तेन कायादिचतुर्विधवस्तुपरीक्षणात् । सतोऽवतीर्णस्य वौर्यमिति सर्वथोत्पन्नानुत्पन्नस्याकुशलस्य कुशलस्य च यथाक्रम प्रहाणानुत्पादनार्थं भूयोभावोत्पादनार्थं च हेतुभूतवीर्यात्मकाः सम्यक् प्रहाणाकाराश्चत्वारो व्यवसायिकमार्गः, तथावरणप्रहाणादिमुखेन वीर्यारम्भात्। वीर्यवतश्चित्तकर्मण्यतापादानमिति छन्दवौर्यचित्तमीमांसासमाधिप्रहाणसंस्कारसमन्वागतीिपादाकाराश्चत्वारः समाधिपरिकर्ममार्गः, तथा