________________
अभिसमयालयारालोकः।
२६५
.
रसंस्कृततामुपादाय नित्यमसदित्यसदर्थोऽनित्यार्थः । दुःखेति । आकाशस्य सर्वधर्मेषु समतामुपादाय सर्ववस्तुव्यापि संस्कारदःखम् । शून्येति । अधिष्ठात्रात्मसम्बन्धगन्धानुबन्धेनापि सर्वधर्मानुपलब्धितामुपादाय परपरिकल्पितात्मादिरहितत्वं शून्यम्। अनात्मेति। स्वयमनात्मत्वेन सर्वधर्मानभिनिवेशतामुपादाय पुगलाद्यस्वभावोऽनात्मा। अलक्षणेति । सर्वधर्मानभिनिर्दृत्तितामुपादाय निःस्वभावोऽलक्षणम् । तदेवमनित्यदःखशून्यानात्माकाराः पञ्चमालक्षणाकारस्वभावा इति पञ्चाकारा दःखसत्ये भवन्ति। सर्वशून्यतेति। पूर्वापरभावलक्षणस्यान्तस्य मध्यस्य च परितोऽन्तद्दयेन युक्तत्वात्पर्यन्तस्याविद्यमानत्वेनानन्तापर्यन्ततामुपादाय निरोधसत्याकाराः षोडशशून्यताः सर्वशून्यताः। तबाध्यात्मबहि?भयवस्तूनां निरोधेनाध्यात्मबहि?भयशून्यताकारास्त्रयो निरोधाकारस्वभावाः शून्यतायां भाजनलोके परमार्थे संस्कृतेऽसंस्कृते शाश्वतोछेदान्तेऽनवराग्रसंसारेऽधिगतधर्मानवकारेऽभिनिवेशस्य प्रज्ञप्त्यात्मकस्यऽष्टप्रकारस्य निरोधेन यथाक्रम शून्यताशून्यता। महाशून्यता। परमार्थशून्यता। संस्कृतशून्यता। असंस्कृतशून्यता। अत्यन्तशून्यता। अनवराग्रशून्यता। अनवकारशून्यता चेत्यष्टौ शून्यताकाराः शान्ताकारस्वभावाः। प्रणौताकारः परपरिकल्पितकारकनिरोधेन प्रकृतिशून्यताकारः। विषयभ्रान्त्यात्मिकानां निरोधेन सर्वधर्मलक्षणानुपलम्भशून्यताकारास्त्रयो निःसरणाकारस्वभावाः। स्वभावनिरोधेनाभावस्वभावशून्यताकार एव