________________
२६०
नवमपरिवर्तः।
नन्दी च। यः समुदयो रागद्देषमोहाः। यः प्रभवः परिकल्पः। यश्च प्रत्ययः सत्त्वाभिनिवेश इति। तत्प्रतिपक्षण वयस्त्रय एक एक इत्यष्टावाकाराः समुदयसत्ये भवन्ति । अप्रमाणेति । सर्वधर्मममुत्थानस्य प्रादर्भावस्य समुत्थानतामुपादाय विपक्षनित्तिप्रतिपक्षावाहकत्वेनाप्रमाणसत्त्वावकाशदत्वान्मार्गाकारोऽप्रमाणः। यथा चाप्रमाणसत्त्वावकाशद इत्याह। अन्तद्दयाननुगमेति। सर्वधर्मानभिनिवेशतामुपादाय संसारनिर्वाणान्तदयस्य प्रहाणादनुगमोऽनुपलम्भः। असम्भिन्नेति। धर्मधातुरूपेण सर्वधर्माणामसम्भेदनतामनानारूपतामुपादाय विपक्षनिवृत्त्या न्यायाकारोऽसम्भिन्नः । यथा च न्याय इत्याह । अपरामृष्टेति। सर्वश्रावकप्रत्येकबुद्धभूम्यस्पृहनतामुपादाय। तद्दिकल्यासंमृष्टोऽपरामुष्टः। अविकल्येति। विकल्पसमतामुपादाय प्रतिपत्त्याकारोऽविकल्यः। यथा च प्रतिपत्तिरित्याह। अप्रमेयेति। अप्रमाणधर्मतामुपादाय लब्धपरित्यागेऽलब्धलाभे च हौनप्रणीतविकल्पाभावं पुरोधाय ज्ञेयावधिरहितत्वेनाप्रमेयः। असङ्गति । तत्र तत्राधिगमे गगनवत् सर्वधर्मासङ्गतामुपादाय नैर्याणिकाकारोऽसङ्गः। तदेवमप्रमाणान्तदयाननुगमासम्भिन्नापरामृष्टाविकल्याप्रमेयासङ्गाकारा यथाक्रमं यः सर्वसत्त्वावकाशदो मार्गों यथा च सर्वसत्त्वावकाशदः, यो न्यायो यथा च न्यायः, या प्रतिपत्तिर्यथा च प्रतिपत्तिः, यच्च निर्याणमिति, हौ हौ हावेक इति सप्ताकारा मार्गसत्ये भवन्ति। अनित्येति । सर्वधर्माणामसत्त्वेन हेतुप्रत्ययै