________________
२८९
अभिसमयालधारालोकः । हेतुस्त्रिविधः। छन्दो रागो नन्दी च पौनविकी तृष्णेति। छन्दप्रतिपक्षेणाह। विरागेति। सर्वधर्माणां शून्यतारूपेणावितथतां सत्यतामुपादाय । रागाभावो विरागः । कर्तुकामत्वाभावाभिसन्धिना निर्दिष्टः छन्दोऽवस्थायां रागः प्रधानमिति कृत्वा। तदभावेन छन्दस्य भावापदेशात् । रागस्य वा कार्यात्मनोभावेनाविकलतहेतुकच्छन्दस्याभावः कथितोऽन्यथाऽविकले कारणे सति कार्यानुदयो न स्यादिति न्यायात्। रागप्रतिपक्षणाह। असमुत्थानेति। मायोपमत्वे सर्वधर्मनिर्विकल्पतामुपादाय समुत्थानस्य छन्दस्याभावोऽसमुत्थानः । धर्मेधसक्तत्वाभिसन्धिना कथितः । रागावस्थायां साक्षात्पत्तिहेतुत्वेन छन्दः प्रधानमिति कृत्वा तदभावेन रागस्याभावापदेशात्। पुनर्भवनिमित्तनन्दौतृष्णाप्रतिपक्षणाह। शान्तेति । सर्वधर्माणां नौलपौतादिनिमित्तानुपलब्धितामुपादाय तृष्णायाः प्रधानेनानुपशमस्याभावः शन्तः। समुदयास्त्रिधा रागद्वेषमोहास्तत्प्रतिपक्षेणाह। निर्दोषेति। दशबलवैशारद्यादिगणपारमितामुपादाय दोषाभावो निर्दोषोऽरागोऽद्देषोऽमोह इति यावत्। प्रभवः परिकल्प्यस्ततो रागादिप्रसूतेस्तत्प्रतिपक्षणाह। निःक्लेशेति। परिकल्पस्य हयाद्यभिनिवेशस्यासत्तामुपादाय क्लेशहेतुप्रभवाभावो निक्लेशः। प्रत्ययः सत्त्वाभिनिवेशः । सत्कायदृष्टेः सर्वानर्थप्रत्ययत्वात्तत्प्रतिपक्षणाह। निःसत्त्वेति। अविपर्यासार्थेन भूतकोटितामुपादाय प्रत्ययाभावो निःसत्त्वम् । तदेवं विरागाकारमारभ्य यावन्निःसत्त्वाकार इति। यथाक्रमं यो हेतुः छन्दो रागो
37