________________
नवमपरिवर्तः ।
सामान्येन ज्ञेयावरणप्रतिपक्षभूताः । सर्वज्ञतया प्रत्येकबुद्धाः सङ्गृहीता इति । तेषां ज्ञेयावरणप्रतिपक्षात्मके सास्रवे भावनामार्गे भवन्ति । असंक्लेशेति । रागद्वेषमोहास्वभावतामुपादाय क्लेशाभावोऽसंक्लेशः । अव्यवदानेति । आश्रयस्य क्लिष्टसत्त्वस्यानुपलब्धितामुपादाय व्यवदानाभावोऽव्यवदानम्। अनुपलेपेति । आकाशस्य प्रकृतिप्रभास्वरत्वेनानुपलेपतामुपादाय क्लेशोपक्लेशलेपाभावोऽनुपलेपः । अप्रपञ्चेति (p. 206, 1 ) । सर्वधर्ममननानामुपलम्भरूपाणां समतिक्रमतामुपादाय प्रपञ्चवाभावोऽप्रपञ्चः । अमननेति । सर्वोपलम्भसमुद्दतादनिश्ञ्जनतां निष्प्रकम्पता - मुपादाय मननाभावोऽमननः । अचलितेति । श्रसंसारं धर्मधातुस्थितितामुपादाय भ्रंशाभावोऽचलितः । तदेतेऽसंक्लेश्ाव्यवदानानुपलेपाप्रपश्चामननाचलाकाराः
२८८
-
षड् यथाक्रमं संक्लेशव्यवदानक्लेशवासनारूपादिप्रपश्चस्वाधिगमोपलम्भपरिहाणिविकल्पानां षमां प्रतिनियतज्ञेयावरणानां प्रतिपक्षभूताः प्रत्येकबुद्धानां नेयावरणप्रतिपक्षात्मकेऽनास्त्रवदर्शनमार्गे भवन्ति । समुदायेन सप्तविंशतिरिति सर्वज्ञताकाराः । तथा चोक्तम् ।
असदाकारमारभ्य यावन्निश्चलताकृतिः । चत्वारः प्रतिसत्यं ते मार्गे पञ्चदश स्मृताः ॥ २ ॥ इति तदनन्तरं मार्गज्ञताकारा वक्तव्याः । तत्र संक्लेशेतर - पक्षाश्रयेण समुदयमार्गसत्ये कारणम् । दुःखनिरोधसत्ये च फलमित्यर्थद्दारेण निर्दिष्टे समुदयमार्गदुःखनिरोधसत्येषु यथासंख्यमष्टौ सप्त पश्च षोडशाकारा बोधव्याः । तच