________________
अभिसमयालङ्कारालोकः ।
२७
नुपलब्धितामुपादायाचैतसिकत्वेन प्रत्ययाकारोऽनाम । तदेवमपदाकाशाप्रव्याहारानामाकाराश्चत्वारो यथाक्रम हेत्वादिलक्षणाः समुदयसत्ये भवन्ति। अगमनेति। निरोधस्वभावसर्वधर्माणां क्वचिदगमनतामुपादाय निरोधाकारोऽगमनः। असंहार्येति । आदिशान्तत्वेन विषयभावोपसंहाराभावात् सर्वधर्माग्राह्यतामुपादाय । शान्ताकारोऽसंहार्यः। अक्षयेति। धर्मधातुरूपेणाक्षयधर्मयोगतामुपादाय प्रणौताकारोऽक्षयः । अनुत्पत्तौति । एकानेकहेतुवैधुर्यात् सर्वधर्मानभिनिर्दृत्तितामुपादाय निःसरणाकारोऽनुत्पत्तिः। तदेवमगमनासंहार्याक्षयानुत्पत्त्याकाराश्चत्वारो यथासंख्यं निरोधादिस्वभावा निरोधसत्ये भवन्ति । अकारकेति। मार्गस्य कर्तृग्राहप्रतिपक्षत्वात् कारकानुपलब्धितामुपादाय मार्गाकारोऽकारकः। अजानकेति प्रमाणबाधितत्वेन सर्वधर्माणामनात्मतामनुपलम्भात्मतामुपादाय न्यायाकारोऽजानकः। असंक्रान्तीति। धर्मधातुरूपेण च्यत्यपपत्त्योर्विनाशोत्पादयोरनुत्पत्तिमुपादाय प्रतिपत्याकारोऽसङ्क्रान्तिः । अविनयेति । पूर्वान्तापरान्तप्रत्युपपन्नाध्वानुपलब्धितामुपादाय क्लेशविनयासम्भवानैर्याणिकाकारोऽविनयः। तदेवमकारकाजानकामनान्त्यविनयाकाराश्चत्वारो यथासंख्यं मार्गादिस्वभावा मार्गसत्ये क्लेशावरणप्रतिपक्षेण भवन्ति। न्यायानुयायिनो जन्मनोऽसत्त्वादनुत्पादविज्ञपनतामुपादाय। स्वप्नप्रतिश्रुत्काप्रतिभासमरीचिमायाकाराः पञ्च यथाक्रम निःस्वभावानुत्पन्नानिरुवादिशान्तप्रकृतिपरिनितिलक्षणाः