________________
२८६
नवमपरिवर्तः ।
वस्तुज्ञानप्रकाराणामाकारा इति लक्षणम् । मर्वज्ञतानां चैविध्यात् त्रिविधा एव ते मताः॥ १॥ इति
तत्र चत्वार्यसत्यान्यधिष्ठानं कृत्वा विसर्वज्ञताधिकारेण यस्मिन् सत्ये यावन्तो भवन्त्याकारास्तानुपरि दोपयन् सर्वज्ञताधिकारेण तावदाह । एवमुक्त आयुष्मान् सभूतिर्भगवन्तमित्यादि (p. 204, 10)। असत्यारमितेयमिति। आकाशस्येव नित्यरूपेणासत्तामविद्यमानतामुपादाय हेतुकृत्यासदनित्याकार इत्यर्थः। असमसमतेति (p. 205, 1)। सर्वधर्मानुपलब्धेरिव समतामनुत्पादतामुपादाय। दुःखाकारोऽन्याकारविसदृशत्वेनासमोऽतुल्यः स तत्त्वतः समताऽनुत्पादः। विविक्तेति। अत्यन्तेनातिशयेनात्मनः शून्यतामुपादाय शून्याकारो गणावाहकत्वेन विवेकः। अनवमृद्येति। सर्वधर्माणामात्मत्वेनानुपलब्धितामुपादाय सर्वतौर्थिकासाधारणत्वेन तौर्थिकाकोप्यत्वेनानात्माकारोऽनवमर्दनीयः। तदेवमसदनुत्पादविवेकानवमर्दनौयाकाराश्चत्वारो यथासङ्ख्यमनित्यादिलक्षणा दःखसत्ये भवन्ति । अपदेति । तत्र चत्वारोऽरूपिणः स्कन्धा नाम, शरीरं रूपस्कन्धस्तेषाममौ हेतुरिति कृत्वा न्यायेनानामाशरोरतामुपादाय हेत्वाकारास्तत्त्वतोऽप्रसवाधानार्थेनापदः। अस्वभावेति । अनुत्पादानिरोधस्वभावामनागतिमगतिमुपादाय समुदयाकारोऽन्यायेनाकाशम् । अवचनेति । सर्वधर्माणामविद्यमानत्वेनोद्भावनासंकृत्याऽपि शब्दाऽवाच्यत्वादविकल्प्यतामुपादाय। प्रभवाकारोऽप्रव्याहारः। अनामेति। पञ्चस्कन्धा