________________
अभिसमयालधारालोकः ।
२८५
वचनेनासाक्षात्कर्तव्यत्वानिर्दिष्टो बोधिसत्त्वानां श्रावकादीनां तु यथा परिदृष्ट एवार्थः पुनः पुनरभिमुखौक्रियमाणो भावनामार्ग इति सुगमत्वानोक्तः। निर्वेधभागीयं पुनबर्बोधिसत्त्वानां पूर्वोक्तक्रमेणावसातव्यम् । श्रावकादीनां त्वनित्यादिभिरेवाकारैराकीर्यमाणे सत्यचतुष्टये साखवं भावनामयमूष्मादिकं स्पष्टत्वानोक्तमिति ग्राह्यम् । ननु मार्गज्ञतायां श्रावकादिमार्गस्याभिधानात् सर्वज्ञता कथितैव कस्मात् पुनः सर्वज्ञतायाः पृथनिर्देश इति चेत् । उच्यते । तत्र हि।
चतुर्णामार्यसत्यानामाकारानुपलम्भः । श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये ॥ इत्यनुपलम्मभावनादिक्रमेण श्रावकादिमार्गो बोधिसत्त्वेन ध्येय इत्युक्तमतोऽनित्यादिभिराकारैर्व्यतिरेकमुखाक्षिप्तरशेषवस्तुपरिज्ञानार्थं पृथक् सर्वज्ञतोपादानम् । बहुवक्तव्यञ्चेदमित्यलमतिप्रसङ्गेन'।।
परिज्ञातत्रिसर्वज्ञतो वशित्वार्थं पुनः सर्वाकारमार्गवस्तुज्ञानसङ्घहेण त्रिसर्वज्ञतां भावयतीति सर्वाकाराभिसम्बोधो वक्तव्यः। तत्र तावन्नित्यादिग्राहविपक्षस्य प्रतिपक्षधर्मता स्वभावानामनित्याद्यालम्बनप्रकाराणामाकारत्वेन व्यवस्थानं सामान्येन लक्षणं ज्ञेयमतो निर्वस्तुकाकारदोषो नेह विज़म्भते। ते चाकारास्त्रिसर्वज्ञताभेदात्त्रिप्रकारा एव मता इति ग्राह्यम् । तथा चोक्तम् ।
Here ends the III chapter of AA. as shown by the colophon inserted in the text-अभिसमयालङ्कारालोकायां प्रज्ञापारमिताब्याख्यायां सर्वज्ञतापरिच्छेदस्ततीयः ॥