________________
२८४
नवमपरिवर्तः ।
महापारमितेयमित्यादि (p. 204, 1)। असङ्गतेति। अनभिनिवेशता। उपलम्भेऽपि धर्मादर्शने को हेतुरिति । तत्कस्य हेतोरित्याशङ्कयाह । नहि स इत्यादि। सुबोधम् । प्रवर्तयिष्यतीति । उत्पादयिष्यति। कारणसामग्रीकरणेन धर्मोत्पादनात्। कथमेवमुच्यत इति। तत्कस्य हेतोरित्याशङ्याह। अत्यन्तेत्यादि। कारणस्यैवासत्त्वादिति भावः । निवर्तयिष्यतीति विनाशयिष्यतीति। मुहुरादिना प्रवृत्तसन्तानविरुद्धपदार्थोत्पादने विनाशावसायात् कथमेवमुच्यत इति। तत्कस्य हेतोरित्याशङ्कयाह। आद्यनभिनिईत्ता हि भगवन् सर्वधर्मा इति। आदावेवोत्पादहेतोरसत्त्वेनानुत्पन्नाः। तदेव कथयन्नाह। प्रकृतिविविक्तत्वात् सर्वधर्माणामिति । स्वभावेन शून्यत्वात् कुतो विरुद्धतेति भावः। सर्वज्ञतामुपसंहरन्नाह। नहि सुभूते शून्यतेत्यादि। शून्यत्वादौनामनुत्पन्नत्वादिति मतिः । इयं सेति सर्वज्ञता सर्वधर्मदेशनेत्यारभ्य यावद्दक्षिणीयः कृत इति। परमार्थसत्यमधिकृत्योक्तत्वात् सुगमः । यथोक्तनौत्या चिसर्वज्ञतोपसंहारे न विप्रतिपत्तिः कार्या । तथा चोक्तम् । इति सेयं पुनः सेयं सेयं खलु पुनस्त्रिधा। अधिकारत्रयस्यैषा समाप्तिः परिदौपिता ॥ १६ ॥ इति । किमर्थं पुनस्तथा सर्वज्ञतायां पृथग्भावनामार्गों नास्ति यथा मार्गज्ञतायामभिहितः। श्रावकप्रत्येकबुद्धसम्पदं बोधिसत्त्वो ज्ञानेन दर्शनेन चावलोक्यातिकामतौति