________________
अभिसमयालङ्कारालोकः ।
२३
ऽर्थादेतदिपर्ययेण श्रावकादीनामनित्यादिभिराकारैदृङ्मार्गोऽवसेयः। तथा चोक्तम्। रूपं न नित्यं नानित्यमतीतान्तं विशुद्धकम् । अनुत्पन्नानिरुद्धादि व्योमाभं लेपवर्जितम् ॥ १२ ॥ परिग्रहेण निर्मुक्तमव्याहारं स्वभावतः । प्रव्याहारेण नास्यार्थः परेषु प्राप्यते यतः ॥ १३ ॥ नोपलम्भकृदत्यन्तविशुदिाध्यसम्भवः । अपायोच्छित्त्यकल्पत्वे फलसाक्षाक्रियां प्रति ॥ १४ ॥ असंसर्गो निमित्तैश्च वस्तुनि व्यञ्जने हये। ज्ञानस्य या चानुत्पत्तिरिति सर्वज्ञताक्षणाः ॥ १५ ॥ इति विस्तरेण निर्दिश्यैवं सकलार्थसङ्घहकत्वेन त्रिसर्वज्ञतामध्ये सर्वाकारज्ञतामुपसंहरन्नाह । सा खल पुनरित्यादि। तत्रावेशिका चित्तोत्याददारेणोत्पादिका। निवेशिकाऽववादादिना प्रतिष्ठापिका। सन्दर्शिका सन्नाहप्रतिपत्त्या सामान्यरूपेण निदर्शिका प्रस्थानप्रतिपत्त्या विशेषरूपेण । आवाहिका सम्भारप्रतिपत्त्या प्रापिका निर्वाहिका निर्याणप्रतिपत्त्या निष्कर्षिका। सर्वच न कस्यचिधर्मस्येत्यभिसम्बन्धनौयम्। अविपरीतधर्मामृतरसेन तृप्ताः पूजयन्तीत्याह । अथ खलु इत्यादि। प्रसादौदिल्यसमुत्यः सिंहनादः किलकिलाप्रवेडितमित्येके। हर्षजनितोऽट्टहासः। किलकिलाः तत्पूर्वकं नृत्यं प्रश्लेडितमित्यपरे। वाराणस्यां प्रथमतो धर्मचक्रप्रवर्तनापेक्षया द्वितीयम् । तात्त्विकाभिनिवेशनिराकरणार्थमाह। नेदमित्यादि। तदेव कथयन्नाह। नापौत्यादि। मार्गज्ञतामुपसंहरन्नाह।