________________
२८२
नवमपरिवर्तः। धर्मभाणकत्वेन हेतुना बुद्धत्वप्राप्तहेतुभूतं निदानं पुण्यं प्रसविष्यतीत्यर्थः। मार्गे धर्मज्ञानमाह। अपि तु खल्वित्यादिना। महानुभावत्वेऽपि बह्वन्तरायत्वे किं कारणमिति । तत्कस्य हेतोरित्याशङ्याह। तथा होत्यादि। महानुभावत्वाहहनामभिलपणीयत्वाबहुप्रत्यर्थकानि। यथा सारञ्चेत्यादि। येन प्रकारेणोत्तरोत्तरसारता तथा प्रत्यर्थिकबहुतेत्यर्थः । सामान्येन निर्दिश्येदानौं विशेषेणाह । अनुत्तरञ्चेदं सुभूते महारत्नमिति । सर्वसत्त्वहितसुखाद्यर्थ प्रत्युपस्थितत्वेन सर्वधर्मविकल्याभावादविकल्पककल्याणप्रकृतिरत्नार्थेन न्यायान्यायासंश्लेषात् फलसाक्षात्करणं प्रत्युपायोऽविकल्पकत्वं महारत्नमिति चतुर्दशः। मार्गेऽन्वयज्ञानक्षान्तिमाह। न च सुभूत इत्यादिना (p. 203, 1) । कल्पितस्तावन्नावलौयते। परतन्त्रं न संश्लिष्यते। परिनिष्यन्नं न परिगृह्णातीत्यर्थभेदः। एतदक्तम् । प्रतिपत्त्यप्रतिपत्तिविनिर्मुक्तत्वेन धर्माणां निमित्तैरसंसर्ग इति पञ्चदशः । विद्यमानत्वेऽपि धर्माणां कथनं न परिग्रह इति। तत्कस्य हेतोरित्याशङ्याह। तथाहीत्यादि। गतार्थम् । मार्गेऽन्वयज्ञानमाह। अनुत्पत्तित इत्यादिना। नैर्याणिकानैर्याणिकविकलत्वेनोभये वाच्यवाचकभावलक्षणे ज्ञेये शब्दे ज्ञानस्यानुत्पत्तिरित्याकारः षोडशः । प्रकारान्तरेणानुपलितार्थं कथयन्नाह । तथाहौत्यादि। इत्यमपि धर्मतत्त्वमभिनिविश्यमानं दोषायेत्याह। सचेदेवमपौत्यादि। यथोक्तनौत्या षोडशकाराः सर्वज्ञताक्षण इति। दर्शनमार्गों बोधिसत्त्वानामन्वयमुखेन कथितो