________________
काभिसमयालङ्कारालोकः ।
सर्वक्लेशोपक्लेशनिरुपलिप्त
समुदयासमुदयविसंयोगात् । इति षष्ठः । प्रभवाप्रभवसंक्लेशापरिग्रहेण निर्मुक्त इति सप्तमः आकाशप्रतिश्रुत्काऽवचनौयप्रव्याहारनिरुपलम्भतयेति प्रत्ययाप्रत्ययविमुक्तत्वादाकाशप्रतिश्रुत्कावत् स्वरूपतोऽवचनौयमित्यष्टमः । यस्मान्निरोधानिरोधेनासम्बन्धस्तस्माद्दचनोदाहरणेन सन्तानान्तरे निरोधसत्यार्थे प्रापणौय इति नवमः । शान्ताशान्ताभावान्नोपलम्भकारणमिति दशमः । सर्वोपलेपानुपलेपधर्मानुपलेपतयेति । प्रणौताप्रणौतविकलत्वात् सर्वोपलेपधर्मैः सास्रवैरनुपलेपधर्मैरनाखवैश्वानुलिप्तत्वादतिक्रान्तोभयान्ता विशुद्धिरित्येकादशः । प्रागेवेति । सुतरामेवोद्ग्रहणादिकारिणां सुलब्धा लाभाः । श्रोत्रविज्ञानानुभवविशिष्टत्वादुग्रहणादेरित्यर्थः। न तेषाञ्चक्षूरोग इत्यादि । निःसरणानिःसरणविविक्तत्वात् सर्वव्याध्यनुत्पाद इति द्वादशः । बहुतरमिति (p. 202, 3) | अष्टम्यादौ प्रजावलोकनादवतीर्णशक्रादिबहुतर श्रोतृसद्भावादिति भावः । मार्गे धर्मज्ञानशान्तिमाह । बहूनि सुभृत इत्यादिना । प्रज्ञापारमितया देवपुत्राणामनुपकारात्तां भाषमाणस्य रक्षादिकरणे तेषां को हेतुरिति । तत्कस्य हेतोरित्याशङ्क्याह । स देवमानुषासुरस्येत्यादि । अनुत्तरं रत्नमिति । सर्वपापप्रशमहेतुत्वेन मार्गामार्गरहितत्वादनुत्तररतिं तनोतीति । देवपुचादौनामुपकारभावादनुत्तररत्नमपायोच्छित्तिरिति
चयोदशः । अतोऽपि सुभूत इत्यादि । न केवलं यच बहुतर श्रोतृजनसम्भवादतोऽप्यनुत्तररतिदानादपि ਰ
२८१