________________
२८०
नवमपरिवर्तः ।
अधुना दर्शनमार्गार्थमाह। प्रज्ञापारमितेति (p. 200, 12)। प्रतिसत्यं धर्मज्ञानक्षान्तिं धर्मज्ञानमन्वयज्ञानक्षान्तिरन्वयज्ञानमित्येवं षोडशक्षणात्मकः। सर्वज्ञताधिकारे दर्शनमार्ग इत्यर्थः। तथा चोक्तम् ।
धर्मज्ञानान्वयज्ञानक्षान्तिज्ञानक्षणात्मकः ।
दःखादिसत्ये दृमार्ग एष सर्वज्ञतानये॥११॥ इति नामधेयमात्रमेतदिति। विकल्पप्रतिबिम्बमात्रमेतदित्यर्थः। तच्च नामेदमिति नोपलभ्यते। तत्त्वतो निःस्वभावत्वात् । नाम किमुच्यत इत्याह । वाग्वस्त्वेवेति निर्विकल्पप्रतिबिम्बकं किमाकारं सत्यमित्याकारप्रतिपादनार्थमाह। किं कारणमित्यादि। न रूपं नित्यं नानित्यमिति। नैःस्वाभाव्येन रूपं नित्यानित्यवियोगान्न नित्यं नानित्यमित्याकारः प्रथमः। न रूपं बद्धं न मुक्तमत्यन्तविशुद्धमिति। दःखादःखविगमत्वेन बन्धमोक्षाभावादिशुद्धमपगतशाश्वतोच्छेदान्तमिति द्वितीयः। अनेन सुभूते कारणेनेति। अविपरीतसर्वधर्माभिसंबोधिहेतुतया। यथावद्धर्मतत्त्वद्योतिकामिमामेव प्रज्ञापारमितां भाषिष्यते। अन्यस्य तथाभूतधर्मतत्त्वप्रकाशने सामर्थ्याभावादित्यर्थः । रूपविशुडित इति (p. 201, 1)। शून्याशून्यरहितत्वाविशुद्धमिति तृतीयः। रूपानुत्पादानिरोधासंक्लेशाव्यवदानविशुद्धित इति। आत्मानात्मस्वभावाभावान्नोत्पन्नं न निरुद्धं न संक्लिष्टं न व्यवदातमेवं विशुद्धमिति चतुर्थः ।
आकाशविशुद्धित इति। हेत्वहेतुतुच्छत्वादाकाशसदृशं विशुद्धमिति पञ्चमः। रूपनिरुपलेपापरिग्रहतयेति ।