________________
अभिसमयालधारालोकः।
२७८
सहलाकधातौ भद्रकल्ये बोधिसत्त्वसहस्रस्य नियमेन बुद्धत्वप्राप्तेर्बुद्धसहसमित्युक्तम् । नामभिरिति (p. 199, 1) पदसमुदायैर्वाक्यैः। पदैरिति सुप्तिङन्तैरक्षरसमुदायैः । अक्षरैरिति एवमित्यादिवर्णैः । अयमेव प्रज्ञापारमिता परिवर्त इति विशुद्धिपरिवर्त इत्यर्थः । तत्रातौततथागतानुदाहरणं तद्देशनापर्युपयोगज्ञापनार्थम् । मैत्रेय इत्यनागततथागतोदाहरणम्। अनागतसत्त्वार्थप्रयोजनाविष्करणार्थम् ॥
अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां
विशुद्धिपरिवर्तो नामाष्टमः ॥