________________
२७८
अष्टमपरिवर्तः।
विधः प्रयोगः कथितोऽर्थाद्यथोक्तविपर्ययेण श्रावकादौनां वेदितव्यः । तथा चोक्तम् ।
रूपादौ तदनित्यादौ तदपूरिमपूरयोः । तदसङ्गत्वे चर्यायाः प्रयोगः प्रतिषेधतः ॥ ८॥ अविकारो न कर्ता च प्रयोगो दष्करस्त्रिधा । यथाभव्यं फलप्राप्तेरवन्थ्योऽभिमतश्च सः ॥ ६ ॥
अपरप्रत्ययो यश्च सप्तधाख्यातिवेदकः । इति समताहारेण प्रयोगो भावनौय इति समतामाह । स च तान् न मन्यत इत्यादिना तत्र समाहितेन चित्तेन तान्न मन्यते यतो न समनुपश्यति । ते च धर्मा न विद्यन्ते। यतो न सन्दश्यते समाहितेन मनसा न जानाति। यतो न सञ्जानौते। ते च धर्मास्तज्ञानगम्या न संविद्यन्ते । यतो नोपलभ्यन्त इति योज्यम् । उपसंहारार्थमाह। सचेदेवं विहरतीत्यादि (p. 198, 11)। तदेवं रूपादिपदार्थमनना। नौलादिनिमित्तमनना। रूपं विधा विंशतिधेत्यादि प्रपञ्चमनना। निर्वेधभागीयाद्यधिगममननानां प्रतिषेधेन ज्ञाज्ञेयधर्मानुपलब्धिश्चतुर्थोक्ता विज्ञेया। तथा चोक्तम् ।
चतुर्धाऽमनना तस्य रूपादौ समता मता ॥ १० ॥ इति
प्रयोगसमतां प्रतिविध्य दर्शनमार्गों ध्येय इत्यधुना वक्तव्यः। स च षोडशक्षणिक इति । “क्षणान्तराभावज्ञापनार्थं साक्षिभावकथनाय सर्वबुद्धभाषितत्वप्रतिपादनाय चाथ खलु बुखानुभावेनेत्यादिवचनमि"त्यार्यविमुक्तिसेनः। उपायकौशलबलेनान्येषां विधिप्रतिषेधाभावात्