________________
अभिसमयालङ्कारातोकः ।
अन्यतमो भिक्षुरिति। अकथापुरुषो नामगोचादिभिरनभिलक्षितः पुद्गल इति यावत् । नमस्करोमौति । अन्येषामपि पार्षदानां यथाभव्याधिगमावाप्तिं संसूचयन् शून्येनानुत्पादादिप्रयोगेण स्वानुरूपाधिगमाज्जातप्रसादातिशयो नमस्करोति। प्रयोगमेवाह। तथाहि भगवन्नित्यादिना। आकाश इति ज्ञेयशून्यत्वे। अभ्यवकाश इति ज्ञाननिःस्वभावत्वे। अपरप्रत्ययप्रयोगार्थमाह। अाज्ञापयतु भगवन्नित्यादि। नो हौदमिति। अपरप्रत्ययतां दर्शयति । परेण रक्षादौ परप्रत्ययतासम्भवात्। एतदेवं प्रश्नयन्नाह । एवं कौशिक स चेदित्यादि। प्रज्ञापारमिताविहारित्वादेव स्वतस्तस्य रक्षादयो भविष्यन्ति नान्यथेति वाक्यार्थः । निःस्वभावधर्माधिमोक्षाच स्वतस्तस्य रक्षादय इत्याह । अपि च कौशिकेत्यादि (p. 198, 1)। सप्तविधख्यातिज्ञानप्रयोगमाह। तत् किं मन्यसे कौशिकेत्यादिना। तत्र विज्ञानपरिणतत्वेन परिणामख्यात्या स्वप्नोपमाः। मंत्रौषधिसंहृतत्वेन समाहारख्यात्या मायोपमाः। अविद्यमानत्वेन विरोधख्यात्या मरीच्युपमाः। शब्दप्रत्ययत्वात् प्रत्ययख्यात्या प्रतिश्रुत्कोपमाः। ज्ञेयरूपासङ्ग्रमणादसङ्क्रान्तिख्यात्या प्रतिभासोपमाः। आधारविगमानिराधारख्यात्या गन्धर्वनगरोपमाः। हेतुविरहादकारकख्यात्या निर्मितोपमाश्च भावा ज्ञाता भवन्तीत्येवं पञ्चविंशतिसाहसिकायामुक्तम् । अत्र तु संक्षेपस्य विवक्षितत्वात् प्रतिश्रुत्कोपमाः सर्वधर्मा इति वचनेन मध्यस्य निर्देशादाद्यन्तविकनिर्देश इति प्रतिपत्तव्यम् । तदेवमन्वयमुखेन बोधिसत्त्वानां दश