________________
२७६
erटमपरिवर्तः ।
माह । तद्यथापि नाम सुभूते मायापुरुष इत्यादि । वितथ प्रख्यातिरूपत्वेनाकर्तृत्वाद्रागद्वेषक्लेशाभ्यां नानुनीयते न प्रतिहन्यते । अत एव तदुदयक्लेशैर्न संक्लिश्यत इति योज्यम् । दुष्करप्रयोगस्य त्रैविध्यादुद्देशदुष्करतासर्वाकारज्ञताप्रयोगार्थमाह । दुष्करकारक इत्यादि । नोत्लवत इति न तरलायते नोपरिवर्तते । न हर्षमुत्पादयतौति यावत् । न च प्रत्युदावर्तत इति । नैव विनिवृत्तिं कुर्यात् । अयं सन्नाह इति । वक्ष्यमाणः सन्नाहः । ननु सम्भवत्प्रज्ञादिप्रकर्षमवगम्य यत्नकरणात् को नामातिशयो दुष्कर इति । तत्कस्य हेतोरित्याशङ्क्याह । आकाशेने - त्यादि । एतदुक्तम् । " आकाशोपमानपि सर्वधर्मानध्यालम्ब्य तत्त्वतः सम्भवत्प्रज्ञादिप्रकर्षाभावेऽपि सर्वाकारज्ञतायाः कृतशः सन्नाहकारणादतिशयो दुष्कर इति । आकाशसमानां धर्मधातुसमानामिति । लौकिकलोकोत्तरप्रसिद्धिभेदेन द्वयमुक्तम् । प्रयोगदुष्करतामार्गज्ञताप्रयोगार्थमाह । आकाशं स भगवन् परिमोचयितुकाम इति । मार्गज्ञतायां यः प्रयोक्तुकाम इति शेषः । कारिचदुष्करता सर्वज्ञताप्रयोगार्थमाह । आकाशं स भगवन्नुत्क्षेप्तुकाम इति । सर्वज्ञतां यः कर्तुकाम इत्युपस्कारः । महावौर्यपारमिताप्राप्त इति । सन्नाहप्रयोगकारित्रेषु शून्यताकरुणागर्भमहाव्यवसायसम्पन्नः। सन्नाहः सन्नयत इति । चिविधदुष्करमुत्सहते । यथाभव्यफलप्राप्त्या वन्ध्यप्रयोगार्थमाह । अथ खल्वित्यादिना (p. 197, 3 ) ।
99