________________
"
.
.
.
.
.
..
..
.
.
रूपं प्रतिपूर्णम् । न तद्र्पमित्यादि (p. 194, 2) । धर्मधर्मिणोर्बुद्धिपरिकल्पितभेदात्। सचेदेवमपि न चरति । चरति प्रज्ञापारमितायामिति वक्ष्यमाणेन सम्बन्धनीयम् । यथोक्तधर्मदेशनया संजातातिशयत्वेनाह। आश्चर्यमित्यादि। अन्यार्थकथनेन प्रकारान्तराभिधानादाश्चर्यम् । तस्मादेवं प्रयोगकथनेन ससङ्गता रूपादीनामुपलम्भरूपत्वमसङ्गता च मातुरनुपलम्भस्वभावता कथिता। रूपादिघसङ्गप्रयोगमाह । रूपं ससङ्गमसङ्गमित्यादि। ससङ्गमसङ्गमिति सोपलम्भमनुपलम्भमित्यर्थः। नन्वभिनिवेशमकृत्वा भावयितुमशक्यत्वात्कथमेवमुच्यत इति । तत्कस्य हेतोरित्याशयाह। असक्तत्यादि (p. 19:5, 17)। अभिष्ठङ्गविगमादसता। अबदाऽमुक्तेति पदद्दयं व्याख्यातम् । प्रतीत्यसमुत्पादशून्यतारूपत्वादसमतिकान्ता। एतदक्तम् । “यथाभिनिवेशमतत्त्वाद्यथातत्त्वञ्चानभिनिवेशादिकल्पेन विषयोकर्तुमशक्या यस्मात् सर्वज्ञता तस्मात्तत्र सङ्गं न जनयती" ति। एवं होत्याद्युपसंहारः। अविकारप्रयोग माह। आश्चर्यमित्यादिना (p. 196, 1)। देशनाऽदेशनाभ्यां यथाक्रमं ग्रन्यात्मिकाया मातुर्मिष्ठान्तर्धानाभ्यां परिहाणिः । तथा देशनया युक्त्यागमबाधितरूपेण सन्तानान्तरे समुत्पादादृद्धिः। अदेशनया निरन्तरप्रतिसंलयनेन स्वसन्तानेऽधिकार्थदर्शनाहविः। मुख्यायास्तु मातुर्निर्विकारस्वभावत्वात् सर्वमेतन्नास्तीत्याह। या देश्यमानापौत्यादि। अविरुद्धत्वात् साध्वित्यादिवचनपूर्वकमेतदेव दृष्टान्तेन स्पष्टयन्नाह। तद्यथापि नामेत्यादि। अकर्डप्रयोगार्थ