________________
२७४
अष्टमपरिवर्तः।
दावस्य भावान्नैवम्भ्रान्तत्वादस्य । यस्त्वभ्रान्तो नासावसति वस्तुनि भवति न चान्यव्यभिचारेऽन्यव्यभिचार इत्यप्यसत्। न हि कार्यकारणभावसाधनवेलायामयं भ्रान्तः खल्वाकारो ऽयं नेति निश्चयनिबन्धनमस्त्यर्वाग्दृशः, न चातौन्द्रियदृशः प्रतौदमुच्यते। न चासति निश्चये हेतुफलभावव्यवस्था ज्यायसौ। न च वस्त्वाकारो ज्ञानस्य युज्यते । यदि ह्येकदेशेन ज्ञेयाकारं ज्ञानमिति तत्परिच्छिद्यात्तदा सर्वे सर्वविदः प्रसज्येरन् । ज्ञेयत्वादिभिः सर्ववस्तुसाधारणैराकाररन्वितत्वात् सर्वज्ञानानां सर्वात्मनापि ज्ञेयाकारत्वे ज्ञानस्य ज्ञानज्ञेययोरैक्येन विभागायोगाद्यवहारोच्छेदः। सर्वात्मना च संवेदनस्य संवेद्याकारत्वे तदभावादित्यलमतिप्रसङ्गेन। मन्दबुद्धिजनानुग्रहेण सन्निहितविनेयजनविपर्यासनिराचिकौर्षया यथानिर्दिष्ट एव विपक्षप्रतिपक्षयोरयं विभागोऽवसातव्यः । तथा चोक्तम् ।
एवं कृत्वा यथोक्तो वै ज्ञेयः सर्वज्ञतानये ।
अयं विभागो निःशेषो विपक्षप्रतिपक्षयोः॥७॥ इति तयोविभावनायां कः प्रयोग इति प्रयोगार्थमाह । तेन होत्यादि। यस्मादेव विपक्षप्रतिपक्षौ हेयोपादेयौ । तस्मात्तदर्थं कथञ्चरितव्यमित्यर्थः। रूपादिप्रयोगमाह । न रूपे चरत्यभिनिवेशयोगेन यदा तदा चरति प्रज्ञापारमितायाम् । एवमुत्तरत्र वेदितव्यम् । रूपाद्यनित्यादिप्रयोगार्थमाह। सचेद्रूपमनित्यमित्यादि। रूपाद्यपरिपूरिप्रयोगमाह। स चेद्र पमप्रतिपूर्णमित्यादिना। लक्षणशून्यत्वात्कल्पितरूपमप्रतिपूर्णम् । गुणगणोपेतत्वाधर्मता