________________
याभसमयालगरालाका ।
२७३
चिन्तातिक्रान्तत्वमिष्यते, अतोऽस्या दुर्बोधतेति यावत् । तथा चोक्तम् ।
रूपादिभिरविज्ञानात्तदचिन्त्यत्वमिष्यते ॥६॥ इति अचिन्त्यत्वमेव कुत इत्याह। अचिन्त्येत्यादि। कथमिति शेषः। न चित्तेन ज्ञातव्या न चित्तेन गमनौयेति यस्मादकृतत्वेनाधिमोक्षमनस्कारानधिमोक्षान्न चित्तेन ज्ञातव्या तत्त्वमनस्कारापरिज्ञानान्न चित्तगमनौया। तस्मादचिन्त्यत्वमिति यावत् । अकृतत्वमेव कथमित्यादि। अकृत इत्यादि। कथमित्युपस्कारः। कारकानुपलब्धित इति कारकहेतोरनुपलम्भात्। तथा हि प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावो वर्णितः। तत्र न तावन्निराकारेणावसीयते। संविन्मात्रेण सर्वचेतसां साम्यादिदमस्य ज्ञानं नेदमस्येति कुतो व्यवस्था। यतो बीजज्ञानादकरज्ञाने तदज्ञानात्तदज्ञाने च बौख कारणमङ्करः कार्यमिति स्यात्। नापि बौजजन्यत्वादोजं तेनावसौयते। मा भूच्चक्षुर्जन्यत्वाचक्षुषोऽवगतिरत इति । अथ निराकारस्यापि चेतसोऽत्यसाधारणः कश्चिदात्मातिशयो हेतुधर्मसामर्थ्यजनितो यस्मादियं व्यवस्थेति चेत् । एमप्यात्मातिशय इत्याकारस्यैव नामान्तरमारोपितम्। न च नामान्तरकरणादर्थान्तरं भवितुमर्हति । नासावाकारश्चेत्कस्तहोत्यपदिश्यताम्। दुरुपलक्षणतया नायमिदन्तया निर्देष्टुं शक्यत इति चेत् । यत एवेयं व्यवस्थेदं बीजमयमङ्कुर इति तदनुपलक्षणे कुतो ऽनुमा स्यात् । न हि दण्डविषाणानुप. लक्षणे ऽयं दण्डौ विषाणी वेति स्थीयते। नापि साकारेण। न ह्याकारो वस्तुनाऽव्याप्तोऽसत्यपि तस्मिन् विचन्द्रा
35