________________
२७२
बरमपरिवर्तः ।
सा सर्वधर्माणां प्रकृतिरेकलक्षणत्वादेकरूपत्वाद्यदतालक्षणत्वानिःस्वभावत्वादित्यर्थः। एतदेवोपसंहरन्नाह । तस्मात्तौंत्यादि। ननु भिन्नकारणजन्यत्वेन भावानां भिन्नस्वभावत्वे कथमेकलक्षणत्वमिति। तत्कस्य हेतोरित्याशङ्याह । न हि सुभूत इत्यादि। एवं मन्यते। प्रमाणव्याहतोत्पादरूपत्वादेषां भिन्नहेतुजन्यत्वनिबन्धनानेकस्वभावाभावे यस्मादेषां न नानारूपता परमार्थतस्तस्मादेकैव प्रकृतिरिति। एवमेता इत्यादि। यथोक्तक्रमण रूपादिसर्वधर्माणामेकैव प्रकृतिरिति प्रकृतिर्यदता ज्ञानज्ञेयसमतैकपरिज्ञाने पूर्वोक्ताः संगकोव्यः। सूक्ष्मासक्तिरूपा विवर्जिता भवन्ति । तथा चोक्तम् । ____ एकप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनमिति ॥ ५ ॥
कथं पुनः प्रकृत्या धर्मगाम्भीर्य प्रागुक्तमित्याह । गम्भौरा भगवन् प्रज्ञापारमितेति (p. 193, 1)। कथमिति काङ्गाप्रश्नः। आकाशगम्भौरतयेति। सर्वविज्ञानोपलब्धार्थनिराकरणेनानुपलम्भेन ज्ञानज्ञेयसमतासंसूचकेन यस्मात्तस्याः प्रकृतेर्बोधता कथिताऽतस्तयाऽऽकाशस्येव गाम्भौर्यमित्यर्थः। तथा चोक्तम् ।
दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता। इति किम्युनः कारणमेवं तस्याः प्रकृतेर्बोधतेत्याह। दुरनुबोधा भगवन् प्रज्ञापारमितेति । अत्रापि पूर्ववत् काङ्क्षाप्रश्नः। न कश्चिदभिसंबुध्यत इति। रूपाद्यावेणिकबुद्धधर्माद्याकारैः प्रकृतेस्तथतास्वाभाव्यादनभिसम्बोधेन यस्मा