________________
अभिसमयालङ्कारालोकः ।
२०१
विपर्यासपरिनिष्यत्त्या परिनिष्यन्नत्वादित्यर्थः। एतदक्तम्। “ यस्मात् स्वभावेनैव सर्वधर्मगोत्राणां ज्ञानज्ञेयस्वभावानां प्रकृत्यैव शून्यत्वात् तेषां गाम्भीर्य तस्मात् केनचिद्रपेणोपलम्भः सूक्ष्मासक्तिर्विपक्ष" इति । तथा चोक्तम् ।।
तहाम्भौर्य प्रकृत्यैव विवेकाधर्मपद्धतेः । इति कथं तर्हि तस्य वर्जनमित्याह । प्रकृतिविविक्तति । भावाभ्युपगमदोषरहितत्वेन यस्मात् प्रकृतिविविक्ता, तस्मान्नमस्करोमि। प्रज्ञापारमितेतिवचनान्न तर्हि सर्वधर्मा विविक्ता इत्याशङ्कायामाह। सर्वधर्मा इत्यादि। ननु स्वसंवेदनरूपत्वेनावगमाभावात् सर्वधर्मविविक्ततायाः कथं सा स्वसंविद्रपा प्रज्ञापारमितेति । तत्कस्य हेतोरित्याशङ्मयाह । तथा हि सुभूत इत्यादि। एतदुक्तम्। " बाह्यवस्तुपरिनिष्यत्त्यभावे स्वप्नादाविवोपदर्शितविविधाकारप्रभेदप्रपञ्च बहिरिव परिस्फुरद्र्पं विज्ञानमुपजायते यदाऽतो ज्ञानस्य संहत्या मायोपमतावगमात्तदव्यतिरिक्तत्वेनाकृताः शून्या मायोपमाः सर्वधर्मा इति भगवतोऽभिसम्बोधात्तेषां विविक्तताऽप्यवगते"ति।
भावा जायन्ति संस्त्या परमार्थे स्वभावकाः ।
तया सर्वमिदं सत्यमसत्यं परमार्थतः ॥ इत्यार्यलङ्कावतारसूत्रानुसारेणानन्तरमेवार्थतत्त्वं स्पष्टयनाह। तस्मात्तहाँत्यादि। अनभिसम्बुद्धास्तत्त्वत इति शेषः। साधूक्तत्वेन समर्थनमाह। तथाहौत्यादिना। कौहशौ प्रकृतिरित्याह। या चेत्यादि। या च प्रकृतिः स्वभावस्तथता सैव स्वरूपविरहादप्रकृतिर्या चाप्रकृतिः