________________
२७०
अरमपरिवर्तः।
तरसङ्गार्थमाह। तेन हि सुभूत इति। निमित्ततो मनसिकरोतीति रूपकायाद्यालम्बनेनाभिमुखीकरणात्। कथं पुनरेवं सङ्गः कथित इत्याह। यावन्ति खल पुनरित्यादि। तदयं प्रकरणार्थः। चिमण्डलविशुड्या दानादावात्माद्यनवबोधेन स्वपरयोनियोजनं सम्यक् प्रवृत्तत्वात् सर्वसक्तिनिचयस्थानप्रतिषेधेन चोपादेयत्वात् सर्वथा प्रतिपक्षः । तथागतादिषु नमस्कारादिः पुण्यसम्भारहेतुत्वेन प्रतिपक्षोऽपि सन् सूक्ष्मसक्तिरूपतया न सर्वथा प्रतिपक्ष इति। तथा चोक्तम् । दानादिष्टनहङ्कारः परेपां तन्नियोजनम् । सङ्गकोटी निषेधोऽयं सूक्ष्मः सङ्गो जिनादिषु॥४॥ इति
कथं पुनः सूक्ष्मसक्तिर्विपक्ष इति। तत्कस्य हेतोरित्याशझ्याह। निमित्ततो हि सुभूते सङ्ग इति। तदेव कथयन्नाह। इति हि स इत्यादि। इदमेव तत्त्वमिति निश्चयग्रहणान्ननिमित्तौकर्तुम् । पुनः पुनरालम्बनानारम्बनौकर्तुमिति भेदः। नापि सा दृष्टश्रुतमतविज्ञातेति चक्षुर्विज्ञानेन दर्शनादृष्टा। श्रोत्रविज्ञानेन श्रवणाच्छ्रता। घ्राणजिह्वाकायविज्ञानैरनुभूतत्वान्मता। मनोविज्ञानेनोपलम्भादिज्ञाता। नापीति प्रत्येक सम्बन्धनीयम् । एतदेव ज्ञेयज्ञानगाम्भीर्यभेदेनाह। गम्भौरेत्यादिना (p. 192, 1) । प्रकृतिरिति स्वभावस्तथतेति यावत् । विविक्तत्वादिति सर्वोपलम्भशून्यत्वात् । प्रकृतिगम्भौरेति । प्रकृत्या ज्ञानस्य स्वभावेनानुत्पादेन श्रावकाद्यविषयत्वाइम्भीरा । प्रकृतिपरिशुद्धत्वात्। प्रकृतिविविक्तत्वादिति। यथाक्रममविकारा