________________
बभिसमयानारालोकः ।
२६६ निवेशयोगेन यथा तबोधिचित्तं सञ्जानौते। तथेदं तत् प्रथमं बोधिचित्तं परिणामयामौत्यभिनिवेशयोगेन यदा च परिणामयति तदानेन पर्यायेण सङ्गतिरिति वाक्यार्थः । कस्मादेवं विपर्यास इत्याह । न च चित्तप्रकृतिरित्यादि। परिणामयितुमिति। यथोक्तहादशप्रकारभेदभिन्नपरिणमनामनस्कारेण चित्तस्य प्रकृतिरनुत्पादता न शक्या परिणामयितुं तस्योपलक्षणत्वादेकानेकवस्तुरूपतया सज्ञातुमपि न शक्येत्यवगन्तव्यम् । सञ्जानौते परिणामयतौति पदद्दयस्य प्रकृतत्वात्। एतदुक्तम् । “रूपादिस्कन्धानां शून्यत्वे चैयविकानाञ्च सर्वधर्माणां सासवानाखवोभयस्थानौयानामतीतादिस्वभावत्वे दानादिबोधिपक्षाणामनुष्ठाने च तात्त्विकोपलम्भसञ्जाविपर्यासप्रवृत्तत्वेन यस्माद्विपक्षस्तस्मादेषां प्रकृतिस्तथता सज्ञातुमशक्ये"ति । तथा चोक्तम् ।
रूपादिस्कन्धशून्यत्वे धर्मेषु यध्वगेषु च । दानादौ बोधिपक्षेषु चर्यासज्ञा विपक्षता ॥३॥ इति यथोक्तार्थविपर्ययेण बोधिसत्त्वानां प्रतिपक्षमाह । तस्मात्तीत्यादिना। यतो विपक्षस्त्याज्यस्तस्माद्भूतानुगमेन देयदायकप्रतिग्राहकाद्यनुपलम्भयोगेन दानादौ परेषां सन्दर्शनादिकं कार्यमित्यर्थः। एवमात्मानञ्च न क्षिणोतीति (p. 191, 2)। तथैव भूतानुगमयोगेन दानादौ स्वयमवस्थानादात्मानमुपलम्भविपर्यासविशेषेण न विनाशयति । इमाश्चेति रूपाद्यालम्बनाः पूर्वमुक्ताः। धर्मताऽविरुवस्थूलतरतमसङ्गकथनात् साधु साध्विति साधुकारं दत्वा सूक्ष्म