________________
टमपरिवर्तः ।
तत्समतापरिज्ञान
कल्याणमित्राद्युपाय कौशलवैकल्यानिमित्तयोगेन प्रतिपत्तौ विपर्यासलक्षणोपलम्भसङ्गसम्भवात् मविज्ञातभावरूपाणां श्रावकादीनां नास्तीत्यतस्तेषां दूरौभावो जिनजनन्या " इति । बोधिसत्त्वादीनां तूत्सारितभावाभिनिवेशभ्रान्तिनिमित्तानां रूपादिसर्वधर्म परिज्ञानमेव तत्समतापरिज्ञानमित्यतस्तेषां सम्यगासन्न भावोऽस्या मातुरिति सामर्थ्यात् कथितमित्याह । आश्चर्यं भगवन्नित्यादि । यावदिति वचनात् सुपरिशुद्धेत्यादिपरिग्रहः । श्रावकप्रत्येकबुद्धाधिगमविपर्ययेण कथनात् स्वाख्याता । परिपूर्णमहायानाधिगमतः सुनिर्दिष्टा । समस्तगुणप्रकर्षनिष्ठाधिगमतः सुपरिनिष्ठिता । इमेऽपि सङ्गा इति नामाद्याः । श्रावकबोधिसत्त्वभेदादेतदेव प्रतिपत्तव्यम् । तथा चोक्तम् ।
अनुपायेन दूरं सा सनिमित्तोपलम्भतः । उपायकौशलेनास्याः सम्यगासन्नतोदिता ॥ २ ॥ इति श्रावकादौनामेवं मातुर्दूरौभावेनानुष्ठानं प्रतिपक्षोऽपि सन् वस्तुपलम्भविपर्यास प्रवृत्तत्वेन बोधिसत्त्वानां त्याज्यत्वाहिपक्ष इति प्रतिपादयितुमाह । कतमे त इत्यादि । श्रन्यमिति । तौर्थिकपरिकल्पितात्मनो विवेक इति । सज्जानीत इति वक्ष्यमाणेन सम्बन्धः । इयन्तमिति । श्रप्रमेया दिसंख्यावच्छिन्नम् । प्रथमेन चित्तोत्पादेनेति । दानादिबोधिपक्षोपलक्षणमत्र चित्तोत्पादः । कथञ्चित्तोत्पादः सङ्ग इत्याह । कतमेनेत्यादि । विपर्यास प्रवृत्तत्वेनाह । स चेदित्यादि । इदं तत् प्रथमं बोधिचित्तमिति । एवमभि
५६८