________________
अभिसमयालङ्कारालोकः ।
२६७
अत्यन्तविशुद्धत्वादिति । प्रज्ञाकरुणयोः सम्यक् प्रतिवेधेन संसारनिर्वाणोभयोपलम्भवियोगात् । तथा चोक्तम् ।
नापरे न परे तौरे नान्तराले तयोः स्थिता । अध्वनां समताज्ञानात् प्रज्ञापारमिता मता ॥१॥ इति सर्वज्ञताधिकाराद्यतिरेकनिर्देशेन श्रावकादौनामध्वसमताज्ञानाभावात् सम्यक् प्रज्ञापारमिता दूरीभूतेति । स्वाधिगममात्रात्मिका तु प्रज्ञापारमिता कृपाप्रज्ञावैकल्यानिर्वाणे संसारे चावस्थिता वस्त्ववस्वपलम्भतयेति ज्ञेयम् । एवमुत्तरचापि क्वचिदन्वयमुखेन क्वचिद्यतिरेकमुखेन कचिदभयथापि निर्देश इति प्रतिपत्तव्यम् । ननु
यः प्रतीत्य समुत्पादः शून्यता सैव ते मता। इति न्यायादध्वसमताज्ञानं पदार्थावबोध एव, स च मर्वेषामेव समस्तौति कथं श्रावकादौनां सम्यक् प्रज्ञापारमितादूरीभाव इत्याह। एवमपोत्यादि। अपिशब्दान्न केवलमन्येन भावाद्याकारेण । किन्तद्देवमपि न कचित् स्थितेत्यप्यभिनिवेशनिमित्तयोगेनेत्यर्थः । रिञ्चिष्यति दूरीकरिष्यतीति (p. 190, 1) तदात्वे चायत्याश्चेति यथाक्रम वाच्यम् । किमत्र कारणं निमित्तप्रतिपत्त्या मातुश्रीभाव इति। तत्कस्य हेतोरित्याशयाह। नामतोपौत्यादि। तत्र प्रज्ञापारमितेत्यादिव्यपदेशमाचं नाम कल्पितादिलक्षणवस्तुनिमित्तम् । सक्तिस्थानविपर्यासः सङ्गः । एतदक्तम् । “मायाकारनिर्मितवस्तुनः प्रतिभासेऽविदिततत्वरूपस्य भावाभिनिवेशितया नै स्वाभाव्याप्रतिभास इव