________________
२६६
अरामपरिवर्तः।
वतोक्तमत्यन्तविशुद्धत्वादिति । यथोक्तभावनामार्गे तत्त्वतो नाधिगम इत्याह । आत्मविशुद्धितो भगवन्न प्राप्तिर्नाभिसमय इति । तत्र न प्राप्तिरग्रजप्राप्त्या योग्यतालक्षणया। नाभिसमयो विमुक्तिमार्गेण । तत्त्वेनैवमित्याह । विशुद्धत्वादिति। शून्यत्वादित्यर्थः। संस्त्या तु सर्वमेवास्तौत्याह। आत्मपर्यन्ततयेत्यादि। अविचारैकरम्यपूर्वपूर्वकारणस्यात्मनः स्वभावस्यापर्यन्ततया रूपादौनामपर्यन्तता गम्यत इति यावत्। विशुद्धत्वान्यायानुयायिन्योत्पत्त्या रहितत्वात्। मार्गज्ञतामुपसंहरन्नाह। य एवमस्येत्यादि। एवमनन्तरोक्तध्यामीकरणतादिक्रमेण योऽयमवबोधोऽधिगमः सेयं प्रज्ञापारमिता मार्गज्ञता बोधिसत्त्वानां निर्दोषत्वेनावगन्तव्या ॥ __ सर्ववस्तुपरिज्ञानं विना न मार्गज्ञतापरिज्ञानं सम्यगिति सर्वज्ञतां वक्तं मंसारनिर्वाणाप्रतिष्ठानमाह। सा खल पुनरित्यादिना (p. 189, 18)। चैयध्विकधर्माणामनुत्पादाकारेण तुल्यतावबोधाद्या श्रावकाद्यगोचरत्वेन विप्रकृता विप्रष्टरूपा बुद्धबोधिसत्त्वानां प्रज्ञापारमिता मता। सा खलु पुन परे तौरे मंसारे प्रज्ञयाऽदौनवदर्शनात् । न परे तौरे निर्वाणे कृपया सत्त्वार्थकरणान्नापि संसारनिर्वाणमुभयमन्तरेण वस्तुनोऽसत्त्वान्मध्येऽपि व्यवस्थिता ।
1 With the stanza 32 ends the second adhikāra of the karikas and therefore in the MS. we read- अभिसमयालङ्कारालोकायां प्रज्ञापामिताटोकायां मार्गज्ञताधिकारो द्वितीयः ॥