________________
व्यभिसमयालङ्कारालोकः ।
२६५
मित्याशङ्कायामाह । प्रज्ञापारमिता भगवन् सर्वज्ञताया इत्यादि । व्यवस्थितधर्मतत्त्वापनयनाभावान्नापकारं करोति। अपूर्वाकरणान्नोपकारं करोतीति पूर्वेण सम्बन्धः । प्रतिपक्षं न परिगृह्णाति । न विपक्षं परित्यजति । न जानातीत्यादिप्रकरणस्यायं समुदायार्थः । ननु चाधिमात्रादिमाचादिः प्रतिपक्षो मृदुमृद्दादिविपक्ष इति भवितव्यम् । तत्कथमन्यथा निर्देश इति चोद्यस्य परमार्थेन कस्यचिन्नोपकारादिकमिति परिहारतस्तथा संवृत्या सूक्ष्ममलापकर्षणे रजकमहायनोदाहरणेन मृदुमृद्दादिक्रमप्रतिपक्षोत्पादेन च सामर्थ्याक्षिप्तेन समाधानतस्तस्य यथानिर्दिष्टभावनामार्गस्यान्त्यक्षणस्य वैधातुकाकारज्ञानज्ञेययोरनुपलम्भाद्या समता सर्वधर्ममायोपमताप्रतिपत्तिः सैव समस्तप्रतिपक्षरूपत्वमिति कृत्वा । आत्यन्तिको विशुद्धिर्मुख्या भगवतो बुद्धस्येष्यत इति । तथा चोक्तम् । त्रिधातुप्रतिपक्षत्वं समता मानमेययोः ।
मार्गस्य चेष्यते तस्य चोद्यस्य परिहारतः ॥ ३१ ॥ इति भावनामार्गपरिसमाप्त्यनन्तरं तदधिकारे प्राग्यदुक्तं या रूपविशुद्धिर्या फलविशुद्धिर्या सर्वज्ञता विशुद्धिरिति तन्निर्दिशन्नाह । आत्मविशुद्धितो भगवन् रूपविशुद्धिरित्यादि (p. 189, 1) | यथात्मनः परपरिकल्पितस्य परमार्थतोऽनुत्पत्तिविशुद्धिस्तद्रूपादिसर्वज्ञतान्तानां विशुद्धिर्वेदितव्येति हारकत्रयस्यार्थः । केवलं संवृत्या रूपादीना - मात्मनश्चार्थक्रियासु यथासंख्यं योग्यायोग्यत्वेन तथ्यातथ्यतया भेदो न तु परमार्थत इत्यभिप्रायेण सर्वच भग