________________
२६०
अहमपरिवर्तः।
मृदमृदादिनवप्रकारभावनामार्गस्वभावत्वेन वाच्यानि । प्रतिपदञ्च विशुद्धत्वादिति भगवतोक्तवचनमधिमात्राधिमात्रादिनवप्रकारविपक्षप्रहाणतो योज्यम् । कामधातुरूपधात्वारूप्यधातुष्धिति वचनात्कामधात्वादिनवभूमिको भावनामार्गो ग्राह्यः। यत्तूक्तम् ।
कामधातौ भवाग्रे च बोधिमार्गाङ्गवर्जिता। इति तदनुपायकुशलान् श्रावकानधिकृत्येति न तेनास्य विरोध इत्येके। अनागम्यस्थानमारभ्य यावदाकिञ्चिन्यायतनपर्यन्तो नवभूमिको भावनामार्ग इत्यपरे। कामधात्वादिवचनं तु मातुस्तत्र परमार्थतोऽस्थानप्रतिपादनपरम् । न तु नवभूमिप्रकाशकमिति । तदयं समासार्थः । यथोक्तासु नवभूमिषु प्रत्येकं यथासंख्यञ्चाधिमात्राधिमाचादिनवप्रकारविपक्षस्य प्रतिपक्षभावेन मृदमृद्दादिमार्गो यथाक्रमं नवप्रकारः सर्वथाऽन्यथा च विशुद्धिहेतुत्वादात्यन्तिको चेतरा च विशुद्धिरिति। तथा चोक्तम्।
मृदुमृद्दादिको मार्गः शुद्धिर्नवसु भूमिषु ।
अधिमात्राधिमाबादेर्मलस्य प्रतिपक्षतः॥३०॥ इति। कथमनुपचरिताऽत्यन्तिको विशुद्धिरित्याह। न जानातौत्यादि। स्वरूपं न जानाति । प्रभेदं न संजानौते । विशुद्धत्वादिति। चैधातुकप्रतिपक्षत्वात्। किमिति विषयगतोऽयं प्रश्नो न तु क्षेपे। तदेवाह । रूपमित्यादि। ननु सदावस्थितं रूपं किमिति न प्रतिपद्यत इति। तत्कस्य हैतोरित्याशयाह। विशुद्धत्वादिति । तत्त्वतो निःस्वभावत्वात् । ननु चाधिमात्राधिमात्रादिः प्रतिपक्षो मृदमुद्दादिभिर्विपक्षैरिति भवितव्यम् । तत्कथमन्यथा निर्दिष्ट