________________
अभिसमयालङ्कारालोकः ।
२६३ इति न्यायाद् या रूपादेरात्मात्मीयाद्यभिनिवेशविगमान्मायोपमताविशुद्धिः सैव सर्वविपक्षरहितत्वेन स्रोतआपत्त्यादिफलस्य प्रज्ञापारमिताया विशुद्धिस्तथा फलस्य या विशुद्धिः सा रूपादेविशुद्धिरिति अहयाधौकारादभिन्नमच्छिन्नम् । तस्मात् फलविशुद्धितो रूपादिविशुद्धिस्तथा रूपादिविशुद्धितः फलविशुद्धिः कथितेति यावत् । तथा चोक्तम्।
फलशुद्धिश्च रूपादिशुद्धिरेव तयोईयोः ।
अभिन्नाच्छिन्नता यस्मादिति शुद्धिरुदौरिता॥२८॥ इति सामान्येन शुद्विमेवमभिधाय विशेषेणाह। पुनरपरमित्यादि। सर्वज्ञताविशुद्धिरिति। विसर्वज्ञताविशुद्धिरित्यर्थः। ततश्चेदमुक्तम् भवति। “श्रावकाणां क्लेशावरणप्रहाणात् , प्रत्येकबुड्वानां तु क्लेशावरणस्य ज्ञेयावरणैकदेशग्राह्यविकल्पस्य च प्रहाणात् सर्वज्ञताविशुद्धिः । यानत्रयमार्गावरणप्रहाणाहोधिसत्त्वानां मार्गज्ञताविशुद्धिः। सवासनक्लेशज्ञेयावरणप्रहाणाधर्मधातूद्भवत्वादात्यन्तिको तथागतानां सर्वाकारज्ञताविशुद्धिरि"ति । तथा चोक्तम् ।
क्लेशज्ञेयत्रिमार्गस्य शिष्यखड्गजिनौरसाम् ।
हानादिशुद्धिरात्यन्तिको तु बुद्धस्य सर्वथा ॥ २६ ॥ इति मार्गज्ञताधिकारे विशुद्धिकथनप्रसङ्गादात्यन्तिको चेतरा च तथागतानां श्रावकाणाञ्च यथाक्रमं विशुद्धिः कथिता। सा कथमित्याह । अथ खल्वायुष्मानित्यादि (p. 187, 9)। गम्भौरावभासकर्यालोकोऽप्रतिसन्धिरसंक्लेशोऽप्राप्तिरनभिसमयोऽनभिनितिरत्यन्तमुपपत्तिरित्यार्यशारिपुत्रोक्तानि नवपदार्थानि (p. 187, 9-188, 1) यथाक्रम