________________
२६२
ष्टमपरिवर्तः ।
अधिगमानधिगमहेतुं प्राप्तिपरिहारविषयमुक्तवं प्रकृतस्यात्यन्तविशुद्धिलक्षणभावनामार्गस्य सामान्येन विशुद्धिं प्रतिपादयितुं गाम्भौर्यं प्रतिपादयन्नाह । दुरधिमोचेत्यादि । (p. 185, 2) दुःखेनाधिमोच्यत इति दुरधिमोचा । दुरधिमोक्षेति यावत् । ननु पृथग्जनार्यभेदेन बन्धमोक्षात् कथमबद्धममुक्तम् रूपमिति । तत्कस्य हेतोरित्याशङ्कयाह । रूपास्वभावत्वादिति । चैपथिकरूपस्य न्यायतो निःस्वभावत्वात् । सामान्येन निर्दिश्यातीतादिभेदेनाह । रूपस्येत्यादि । तथैव तत्कस्य हेतोरित्याशङ्क्याह । पूर्वान्ता - स्वभावमिति । पूर्वान्तो हेतुस्तत्त्वतोऽनुत्पन्नत्वेनास्वभावो यस्य वर्तमानरूपस्येति तथोक्तम् । पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह। अपरान्तास्वभावमिति । अपरान्तं कार्यं पूर्ववदस्वभावमस्येति विग्रहः । तथैव तत्कस्य हेतोरित्याशङ्कयाह । प्रत्युत्पन्ना स्वभावमिति (p. 186, 1 ) । प्रत्युत्पन्नलक्षण विरहितम्। रूपादिस्वभावशून्यत्वेन पृथग्जनागोचरत्वाद्दुरधिमोचा। लौकिकवीतरागाविषयत्वात् परमदुरधिमोचा । ननु रूपादिप्रज्ञापारमितास्वभावयोः संवृतिपरमार्थभेदेन विवेकप्रतिपत्तेः कथं परमदुरधिमोचेति । तत्कस्य हेतोरित्याशङ्क्याह । या रूपविशुद्धिरित्यादि । नानात्वलक्षण
प्रभेदलक्षणच्छेदाभावादच्छिन्नम् ।
भेदाभावादभिन्नम् । स्वसामान्यलक्षणनानात्वविरहादा यथाक्रममुक्तम् । इति
हौत्यादि ।
संवृतेस्तथता यैव परमार्थस्यापि सा मता ।
अभेदात् सोऽपि हि न्यायो यथादर्शनमास्थितः ॥