________________
अभिसमयालदारालोकः ।
सति, मुक्तकसूचाण्यपि सूचान्तपिटकेष्वपठितत्वादबुद्धवचनान्यभ्युपेयानि स्युस्तथैकैकस्मिन् सूचान्तपिटकेऽन्यानि सूचान्तपिटकानि न सर्वप्रकारमवतरन्ति । तथैकैकस्मिन् विनयेऽन्ये विनया न सर्वप्रकारं सन्दृश्यन्ते । तथैकैकस्मिन् निकाये या धर्मता व्यवस्थापिता न साऽन्येषु निकायेषु धर्मतां सर्वप्रकारमनुलामयतीत्येवमष्टादशभेदभिन्नानि सूत्रविनयाभिधर्मपिटकानि परस्परं ग्रन्थार्थव्यतिभिन्नानि कथं बुद्धवचनानि सिड्यन्तीत्यव्यापकमेतत् बुद्धवचनलक्षणमभ्युपगच्छन्तीति मूढा एव । अथवा ।
मनःप्रदोषः प्रकृतिप्रदुष्टे
ह्ययुक्तरूपेऽपि न युक्तरूपः । प्रागेव सन्देहगतस्य धर्मे
तस्मादुपेक्षेव वरं ह्यदोषः॥ इत्यस्यार्थस्यापरिज्ञानान्मोहपुरुषाः। दूषयितव्यामिति । परस्परविरोधोद्भावनया प्रतिक्षेप्तव्यामिति पूर्ववत् । प्रतिबाधितव्यामिति प्रत्यक्षादिप्रमाणबाधनात्। अस्य तु सर्वधर्मप्रतिक्षेपस्य चतुरो हेतून् प्रतिपादयितुमाह। कोत्र हेतुरित्यादि। चतुर्भिराकारैरिति। माराधिष्ठानगम्भीरधर्मानधिमोक्षस्कन्धाद्यभिनिवेशपापमित्रपरिग्रहैश्चतुर्भिः प्रतिक्षेपहेतुभिरित्यर्थः । तथा चोक्तम् ।
धर्मव्यसनहेतवः ॥ २६ ॥ माराधिष्ठानगम्भीरधर्मतानधिमुक्तते। स्कन्धाद्यभिनिवेशश्च पापमित्रपरिग्रहः ॥२७॥ इति अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां
निरयपरिवर्तो नाम सप्तमः ॥