________________
२६०
सप्तमपरिवर्तः ।
इत्याह। ये चेत्यादि। सम्भवत्प्रमाणस्याकथने किं कारणमिति। तत्कस्य हेतोरित्याशयाह। मा तथारूपस्येत्यादि। यस्मान्महन्नारककायप्रमाणं श्रुत्वा दुःखमहत्त्वं प्रतिपद्य महाभयेन सहसा प्रतिपक्षसमुदाचारादिविरोधेनोष्णरुधिरागमनादयः स्युस्तस्मान्नाख्यायत इति समुदायार्थः । मरणमात्रकं वा दुःखमागाढमाबाधं स्पृशेदिति मृदुमध्याधिमात्रभेदादुक्तम् । पश्चिमाया जनताया आलोक इति अशुलकर्मकारिणः । संवेगोत्पादाडर्मालोकः संवेग इति तोतुत्वात्तथोक्तः। सुसंहतकायकर्मवाकर्ममनस्कर्मणेति (p. 183, 5) यथाक्रमं स्मृतिसम्प्रजन्यतामुपादाय कायिकवाचिकमानसिककुशलानुष्ठानादुक्तम्। विपरीतकरणे को दोष इति। तत्कस्य हेतोरित्याशयाह । यत्र हि नामेत्यादि । एवंरूपेणेति नैतडुद्धवचनमित्येवं स्वभावेनास्योपलक्षणपरत्वात्। विपरीतकायवाङ्मनस्कर्मणापौति ज्ञेयम् । प्रक्रान्तवाग्दर्भाषितप्रकरणोपसंहारार्थमाह। कतमेनेत्यादि। अन्यथानन्तरमेवोक्तमिति कथं प्रश्नः स्यात् । मोहपुरुषा इति। स्वकेऽवतारात् स्वस्यैव विनयदर्शनादपि। औदार्यादपि । गाम्भीर्यादविरुदैव धर्मतेति वचनात् । यत्सूत्रेऽवतरति विनये च सन्दृश्यते। धर्मताच्चानुलोमयतौति बुद्धभाषितलक्षणावगमेन सूत्रादिसङ्ग्रहौताया मातुः स्वभावानवधारणान्मूढः। स्यादेतनिकायग्रन्थे परिमितपरिमाणसूत्रेधनवतारात्तथापरिच्छिन्नप्रमाणविनयपिटकेसंदर्शनात्तथाव्यवस्थापितपुगलनैरात्म्यादिधर्मताविलोमनेनाबुङ्ववचनमहायानप्रतिक्षेपादमोह इति। एवं च