________________
व्यभिसमयालङ्कारालोकः ।
भावात्समुत्थापितेन (p. 180, 2) | महानिरयेषिति । जम्बूstपस्याध विंशत्या योजनसहसैरवौचिर्महानरकः । तत्प्रमाणस्तदुपरिष्टात् प्रतापनस्तपनो महारौरवो रौरवः संहातः कालस्तूचः सञ्जीवश्चेत्यष्टौ महानिरयाः । तेजःसंवर्तनौति । नरकगतिमुपादाय यावद्ब्रह्मलोके कश्चित् सत्त्वो नाविशिष्टो भवति तदा शून्यभाजने सप्त स्वर्याः प्रादुर्भूय क्रमेणाप्मण्डलमारभ्य यावत् प्रथमं ध्यानं दहन्ति । अन्येषु लेोकधातुष्विति । चिसाहस्रमहासाहस्रेषु प्रचुर - दुःखानुभवे किं कारणमिति । तत्कस्य हेतोरित्याशङ्क्याह । यथापि नामेत्यादि सुगमः । पश्चेति (p. 181, 3 ) । मातृवधः पितृवधोऽर्हद्दधः सङ्घभेदस्तथागतदुष्टचित्तरुधिरोत्पादश्चेत्येतानि पञ्चकर्माण्यनन्तरमवौचिमहा निरये जन्महेतुत्वादानन्तर्याणि । कार्यकारणस्वभावैस्त्रिभिः सादृश्याभावाद्यथाक्रमं न प्रतिवर्णकापि नानुरूपाण्यपि न प्रतिरूपाण्यपौति । योज्यम् । ननु दुःखितेषु करुणाप्रवर्तनात् कथं स्थानादिनिषेध इति । तत्कस्य हेतोरित्याशङ्क्याह । धर्मदूषका होत्यादि । अन्येषामपि स्वदोषोपादानात् सस्योपघाटकतृणजा तिवद्दोधिसत्त्वस्य कृष्णसर्पवद्द्द्देषबाहुल्यात्
1
कसम्बकजाताः ।
विनाशात् कृष्णा निर्जातिकाः कृष्णा हिजातिकाः । अनयेन व्यसनमिति (p. 182, 2) | यस्मादेवंविधपापकारिभिः सह कृपाऽविषयत्वेनावस्थाविषय विभागादिकं परिहृत्यादिकर्मिकाः संवासादिना - ऽनेनेति दुराचारेण व्यसनमुपघाटमापत्स्यन्ते तस्माधर्मदूषका वर्जनीया इति यावत् । धर्भदूषकाः क उच्यन्त
२५६