________________
सप्तमपरिवर्तः ।
ग्रहणम् । व्यवहारः प्रज्ञप्तिपूर्वकौ हिताहितप्राप्तिपरिहारौ । विभज्येत्यादि (p. 178, 3 ) । प्रज्ञापारमितायोगार्थं येनोपायकौशलं विमाचतया मृदादिभेदेन भावितं स योगमापत्स्यत इति विभज्य वक्तव्यमेतदनेनो पायकौशलमुक्तम् । यथोक्तमेव सेवादित्रयमुत्पादहेतुः । तथा चोक्तम् । बुद्धसेवा च दानादिरुपाये यच्च कौशलम् । हेतवोऽत्राधिमोक्षस्य ॥
२५८
इति । अनुत्पादहेतुं निर्दिशन्नाह । स्यात् खलु पुनरित्यादि । अनधिमोक्षे किं कारणमिति । तत्कस्य हेतोरित्याशङ्क्याह । पूर्वमपौत्यादि । ततः पर्षयोऽपक्रान्ता इति प्रतिक्षेपचित्तेनेति शेषः प्रयोगाद्यवस्थाचये यथाक्रमं सञ्चितेनेत्यादि वक्तव्यम् । कायासन्निधानान्न कायसामग्री । चित्तविक्षेपान्न चित्तसामग्री । प्रत्यक्षानुमानागमप्रमाणेयथासंख्यं न जानन्ति न पश्यन्ति न बुध्यन्ते । अत एव न वेदयन्ते परानिति शेषः । स्वरूपनिराकरणात् प्रत्याख्यास्यन्ति सामर्थ्यापवात् प्रतिक्षेपयन्ति (p. 179, 4) । अप्रियाभिधानात् प्रतिक्रोक्ष्यन्ति । कुशलमूलानुत्पादादुपहत्याकुशलवासनोत्पादेन दग्धाः स्वल्पदानादित्रययोगादल्पपुण्याः । मृदुमैत्र्यादिसम्भवादल्पकुशलमूलाः । कर्तुकामतापनयनाद्दिच्छन्दयिष्यन्ति । स्वरूपापकर्षणकरणाद्विवेचयिष्यन्ति । पुनः प्रवृत्तिनिराकरणाद्दिवर्तयिष्यन्ति । सर्वे - णेत्यादि। सर्वेण बुद्धरत्नादिरूपेण । सर्वं शाक्यमुनितथागतादिरूपम् । सर्वथा मृदुमृदादिप्रकारभेदेन सर्वमधिशौलादिप्रकारम् । उत्पादनादुपस्थितेन । विनाशा
1