________________
अभिसमयालङ्कारालोकः ।
गतपर्युपासनादिकमनुमौयत" इति । समाधानोत्पादनाच्छोत्रमवदधाति । मण्डलादिकरणात्सत्कृत्य शृणोति । अप्रस्तुतार्थानभिधानात् कथं नोपच्छिनत्ति । चिरचरितावीस (p. 177, 4 ) इति वचनेन दानादिरुक्तः । अनेकबुद्धपर्युपासनात् बहु बुद्धपर्युपासितः । सहेतुकश्रवणादावनभिनिवेशं प्रतिपादयितुमाह । शक्या पुनरित्यादि । उपलक्षयितुमित्यादिपदानि यथासंख्यमियं सेत्यादि पदचतुष्टयेन सम्बन्धनीयानि । तचाकारलिङ्गनिमित्तानि स्वसामान्योभयरूपाणि यथाक्रमं वेदितव्यानि । हेतुबलादपि श्रवणं संवृत्या न तु तत्त्वत इत्याह । नो हौदमिति । तदेवाह । नेयमित्यादि । प्रतौयमानेनापि स्कन्धादिना कथं न शक्यते श्रवणादि कर्तुमिति । तत्कस्य हेतोरित्याशङ्क्याह । सर्वधर्मेत्यादि । तत्र वर्तमान भूतस्कन्धादिस्वलक्षणशून्यत्वात् सर्वधर्मविविक्तत्वं कार्यकारणान्तद्वयविगमादत्यन्तविविक्तत्वम् । तस्मात् वैयध्विकशून्यत्वेन तत्त्वतः स्कन्धादिभिर्निर्देष्टुं न शक्यत इति वाक्यार्थः । तद्यतिरेकेण तर्हि निर्दिश्यतामित्याह । न चान्यत्रेत्यादि । प्रकारान्तरस्यानिषेधे कथमेवं लभ्यत इति । तत्कस्य हेतोरित्याशङ्क्याह । स्कन्धेत्यादि । उत्पादहेतुवैकल्येन शून्यम्। स्वरूपानवधारणाद्दिविक्तम् । कार्यसामर्थ्यविरहेण शान्तम् । एतदुक्तम् । “ सर्वधर्मसंग्राहकस्कन्धादौनां तत्त्वतो निःस्वभावत्वे तद्यतिरेकेण निर्देष्टुं न शक्यत" इत्यादि । इति हौत्याद्युपसंहारः । संज्ञा समज्ञा यथाक्रमं स्वसामान्यलक्षणोद्रहणलक्षणे । प्रज्ञप्तिस्तत्सङ्केतो
66
1
33
२५७
-
-