________________
२५६
सप्तमपरिवर्तः ।
विनाशधर्मता सदैवावस्थिता तथता । सत्त्वस्य मायोपमतया दर्शनमार्गेणानवगमः सत्त्वानभिसम्बोधनता । सत्त्वस्य पूर्वभावनामार्गेणाऽप्रतिपत्तिः सत्त्वयथाभूतार्थानभिसम्बोधनता । सत्त्वस्य बलं प्रमाणाव्याहतं सामर्थ्यं मायोपमत्वं तस्य प्राप्तिः समुदागमनता । तथा तथागतबलस्य प्रज्ञापारमितायाः समुदागमनता वेदितव्या । यथोक्तस्वभावादिलक्षण एवाभिनिर्हार भावनामार्गोऽव
सातव्यः । तथा चोक्तम् ।
स्वभावः श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः । नोपलम्भेन धर्माणामर्पणा च महार्थता ॥ २१ ॥ इति तदनन्तरं द्वितीयोऽत्यन्त विशुद्धिलक्षणो भावयितव्यस्तदुत्पादानुत्पादहेतोर्यथाक्रमं परिग्रहत्यागेनेत्युत्पादहेतुं तावत्प्रतिपादयितुमाह । यो भगवन्नित्यादि (p. 176, 7 ) । मार्गान्तराकांक्षणान्न कांक्षिष्यति । सन्देहाभावान्न विचि कित्सिष्यति । अज्ञानविगमान्न धन्वायिष्यति । चिरचरितावौति । चिरं दौर्घकालं चरितमनुष्ठितं दानादि । श्रावकादिबोधावनिर्यातनेनावितुं रक्षितुं शौलमस्येति तथोक्तः । श्रनुगमिष्यति धर्मतोऽर्थतश्च । अनुभोत्स्यते तन्नयतः । अनुबोधयिष्यति परानुभयथा यथाक्रममित्येवमर्थभेदो वाच्यः। परिवारादिदानात्पर्युपास्यः । संशयार्थ - . परिपृच्छनात् परिपृच्छति बुद्धसेवा कथिता । अधिमोक्षस्य पर्युपासनादिना कः सम्बन्धो येनाधिमोक्षबलात् पर्युपासनादिकं प्रतीयत इति । तत्कस्य हेतोरित्याशङ्क्याह । यः कश्चिदित्यादि । एतदुक्तम् । “ विशिष्टकारणमन्तरेण तादृग्विधाधिमोक्षाद्यसम्भवात् तत्कारणं तथा
66